________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
एतद्भहणमप्येकैराचर्यते, तथा तूलीमसूरकादीनामपि परिभोगः कैश्चिद्विधीयते, तत्र तूलीमसूरके प्रतीते आदिशब्दात्तूलिकासल्लककांस्यताम्रपात्रादीनां परिग्रहः । एतान्यति यतीनां न कल्पन्ते इति
४४
॥८७॥
अथ प्रस्तुतमुपसंहरन्नाह
इच्चाई असमंजसमणेगहा खुड्डचिट्ठिय लोए ।
बहुएहि वि आयरियं न पमाणं सुद्धचरणाणं ॥८८॥
इत्याद्येवंप्रकारमसमंजसं वक्तुमप्यनुचितं शिष्टानामनेकधानेकप्रकारं क्षुद्राणां तुच्छसत्वानां चेष्टितमाचरितं लोके लिंगिजने बहुभिरप्यनेकैरप्याचीर्णं न प्रमाणं नालंबनहेतुः । शुद्धचरणानां निष्कलंक चारित्रिणां अप्रमाणता पुनरेतस्य सिद्धान्तनिषिद्धत्वात्संयमविरुद्धत्वादकारणप्रवृत्तत्वाच्च सम्यगालोचनीयेति ॥८८॥
एवमानुषंगिकमभिधाय प्रस्तुतोपसंहारमाह - गीयत्थपारतंता इय दुविहं, मग्गमणुसरंतस्स । भावजइत्तं जुत्तं दुप्पसहं तं जओ चरणं ॥८९॥
गीतार्थपारतंत्र्यादागमविदाज्ञयेत्युक्तनीत्या द्विविधमागमनीत्यागमानुगतवृद्धसमाचारभेदेन द्विप्रकारं मार्गमनुसरतस्तदनुसारेण व्यवहरतः साधोरिति गम्यते भावयतित्वं सुसाधुत्वं युक्तमुचितं वक्तुमिति शेषः । किमित्यत आह दुःप्रसहांतं दुःप्रसहनामधेयाचार्यपर्यन्तं । यतो यस्माच्चरणं चारित्रं सिद्धान्ते श्रूयते इतिशेषः । अयमभिप्रायो यदि मार्गानुसारिक्रियाकरणसारं यतमानाश्चारित्रिणो नाभ्युपगम्यन्ते, ततस्तदन्येषामनुपलंभाद्व्यवच्छिन्नं चारित्रं तव्यवच्छेदात्तीर्थं चेत्यायातं, एतच्च प्रत्यक्षीभूतभवद्भाविभावस्वभावजिननाथप्रणीतसिद्धान्तेन सह विरुद्धमिति न प्रेक्षापूर्वकारिणः प्रतिपद्यते । तथा च व्यवहारभाष्यं - से किंचि य आएसो दंसणनाणेहिं वट्टए तित्थं ।
,