SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुसारचरित्रम् वंजके । शुद्धिरस्य चरित्रस्य, कृता वै शुभभावतः ॥ १६४ ॥ तुलाकृष्णेति नामा यः, पण्डितेषु महोत्तमः । दृष्टिपातः कृतस्तेन, अभयज्ञानमन्दिरे ॥ १६५ ॥ ॥ इतिश्रीवस्तुसारचरित्रम् ॥ श्रीरत्नपाल चरित्रम् ॥ श्रीरत्नपालचरित्रम् ॥ ज्ञातकुले महासूर्य, मिथ्यात्वतमनाशकम् । महावीरं जिनं वन्दे, भव्यानां हितकारकम् ॥ १॥ वन्देऽहं श्रीगणाधीशन् , गौतमादिमुनीश्वरान् । महालब्धिधरांस्तांश्च, अत्यन्तशुभभावतः ॥ २॥ वन्देहं तं महासूरिं, आनन्दाब्यभिधानकम् । आगमोद्धारकर्तारं, पंचमारे प्रभावकम् ॥ ३ ॥ शान्तमूर्ति सदानन्द, क्षमासागरपाठकम् । महोपकारिणं नत्वा, पंचाचारपवित्रितम् ॥ ४॥ चरित्रं रत्नपालस्य, करोमि गुरुभक्तितः । स्वान्यजीवोपकाराय, चित्ताहादप्रदायकम् ॥ ५॥ (युग्मं) भो भव्या ! श्रुयतां शाकं, शुद्धभावेन सर्वदा । शास्त्रेण च महालाभो, वीरेणेति प्रकाशितम् ॥ ६॥ श्रीवीरप्रभुणाप्येवं, भाषितं निजपर्षदि । "माणुसत्तं सुई सद्धा, संजमंमिय वीरियं" ||७|| चतुष्व॑ङ्गेषु मध्ये तु, द्वितीयं श्रुतिरुच्यते । त्यक्त्वाऽलस्यं तु भो भव्याः!, सादरं श्रूयतां मुदा ॥८॥ श्रुत्या श्रीरत्नपालेन, साधितं च शिवं खलु । तस्य निदर्शनं वक्ष्ये, यथा पूर्व मया श्रुतम् ॥ ९॥ मेदपाटे शुभे देशे, लक्ष्मीपुरं महापुरम् । सदाचारिजनाकीर्ण, धनधान्यादिसंभृतम् ॥ १०॥ अनेकजिनचैत्यानि, शोभन्ते यत्र नित्यशः । ध्वजादिकेन युक्तानि, जनचेतोहराणि च ।। ११ ॥ देवपालो नृपस्तत्र, यथार्थगुणधारकः । मोहिनीति प्रिया तस्य, शिलालङ्कारधारिणी ॥१२॥ धन Coopeeroozooooooomercanedeo
SR No.022760
Book TitleVastusar Ratnapal Charitre
Original Sutra AuthorN/A
AuthorMithabhai Kalyanchandra Jain S Samstha
PublisherMithabhai Kalyanchandra Jain S Samstha
Publication Year1956
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy