________________
|| दयंति पुरुषं । यथा हि मधुगक्षग वाणी ।। ६० ॥ ततः कुमारेण मंत्रिणोऽग्रे यथास्थितः स्ववृत्तांतः ।। रूपसेन | प्रोक्तो यथा-मन्मथनृपपुत्रो रूपसेनाभिधोऽहं कुमारोऽस्मि. तत् श्रुत्वा राजामंत्रिप्रभृतिसर्वोऽपि परिवारः18
चरित्रम् ॥ ७२ ॥
| परमानंद प्राप्तवान्. तत्कालं राज्ञा दैवज्ञा आकारिताः, शुभं लग्नं च गृहीत्वा तेन सह सा कनकवतो ? | पुत्री राज्ञा समहोत्सवं परिणायिता, हस्तमोचनावसरे च राज्ञा करितुरगवस्त्रद्रव्यादि कुमाराय दत्तं. | ततो रूपसेनकुमारः कियदिनानि तत्र स्थित्वा सपरिवारः कनकवत्या युतः स्वनगरंप्रति प्रस्थितः,18 १ कियद्भिर्दिनैः शुभशकुनैः प्रेरितः स राजग्रहनगरे प्राप्तः, स्वमातापित्रोश्च मिलितः, तावपि पुत्रं कुशलेन
समागतं दृष्ट्वातीवहृष्टौ, पोराश्र राज्ञो वर्धापनिकां यच्छंतिस्म, एवं राजगृहे नगरे महामहोत्सवः संजातः, | राज्ञा च दीनयाचकेभ्यो बहूनि दानानि दत्तानि. एवं पद्मावतीसहायतो जैनाचार्यकथनानुसारेण स है
रूपसेनकुमारः स्वकलत्रयुतः समृध्ध्या सह द्वादशवर्षस्तत्रागतः, यतः-अमोघा वासरे विद्यु-दमोघं | निशि गर्जितं ॥ अमोघा देवतावाणी । अमोघं मुनिभाषितं ॥ ६१ ॥ इतो वनमध्ये श्रीजैनाचार्याः सम
वसृताः, तदा मन्मथराजातीवहृष्टः सन् परिवारयुतस्तेषां वंदनाथै वनमध्ये गतः. गुरुभिरप्युपदेशो दत्तः, 8| यथा-दुर्लभं मानुषं जन्म। दुर्लभं श्रावकं कुलं ॥ दुर्लभा धर्मसामग्री। दुर्लभा धर्मवासना ॥६२ ॥ किं ||
॥७२॥