________________
रूपसेन
।। ५५ ।।
| निद्रा समागता भविष्यति ततस्तां स जागरयति - प्रोज्जृंभते परिमलः कमलावलीनां । शब्दं करोति चतरूपरि ताम्रचूडः ॥ शृंगं पवित्रयति मेरुगिरेर्विवस्वानुत्थीयतां सुनयने रजनी जगाम ॥ ४ ॥ तथा सा न वदति पुनः क्षणं प्रतीक्ष्य स स्वप्रियामुद्दिश्य बभाषे - एते व्रजेति हरिणास्तृणभक्षणाय | चूर्ण | विधातुमथ यांति हि पक्षिणोऽपि ॥ मार्गस्तथा पथिकलोकगणप्रपूर्ण । उत्थोयतां सुनयने रजनी जगाम ॥ ५ ॥ इत्युक्तेऽपि किंचिदप्युत्तरमलब्ध्वा विस्मितो रूपसेनकुमारो यावत् सावधानतया विलोकयति तावत्तत्र स्वभार्यां न पश्यतिस्म, कंथादिवस्तुचतुष्टयमपि न विलोकयतिस्म. अहो मम निद्रामध्ये इदं किं जातं ! यतः - निद्रा मूलमनर्थानां । निद्रा श्रेयोविघातिनी ॥ निद्रा प्रमादजननी । निद्रा संसारवर्धन ॥ ६ ॥ नूनं मनुष्याणां निद्रया हानिरेव स्यात् उक्तं च- आजन्मोपार्जितं द्रव्यं । निद्रया व्यवहारिणां ॥ चौरैस्तु गृह्यते स । तस्मादेतां विवर्जयेत् ॥ ८ ॥ ततोऽसावुत्थाय तां सर्वत्र विलोकयामास, परं सा न लब्धा. ततः स मनसि चिंतयति, अहो नूनं सा मातृपितृमिलनमनोरथा पुनः स्वस्थानके एव गता संभाव्यते, परं सा मम दिव्यवस्तुग्रंथिमप्यादाय यद्गता तदेवैतत्कार्यं मम दुःखं करोति यतः - | रात्रिर्गमिष्यति भविष्यति सुप्रभातं । भास्वानुदेष्यति हसिष्यति पंकजं च ॥ इत्थं विचिंतयति कोश
चरित्रम्
।। ५५ ।।