________________
रूपसेन
॥ ३९ ॥
दत्तो. इभ्येनापि तत्कणों स्वहस्ताभ्यां वाढं गृहीतौ ततः स पुमान् भूमिपतितखदीनारान् गृहीत्वाग्रे | चलितः इभ्योऽपि दीनारवांछया तस्य रिंछस्य कर्णौ बाढं मर्दयामास. अथ दूरं गत्वा तेन पुंसा तस्येभ्य. स्योक्तं भो मित्र किं तव दीनारलाभो जातः ? इभ्येनोक्तं हे मित्र असो रिछस्तु मां हंतुमिच्छति तेनोक्तं | तनं मुंचेत्युक्त्वा स तु वेगेन ततः पलायितः अथ स इभ्यो न च तं रिछं मोक्तुं गृहीतुं वा शक्नोति. एवं लोभाभिभूतेन तेन परकीयं दुःखं स्वस्योपरि गृहीतं तद्वदस्माभिरपि केवलं कीर्तिवांख्यैतन्मरणरूपं परकीयं दुःखं स्वायत्तीकृतं, अथ राज्ञः सकाशात्कथं छुटिष्यते ? एवं ते आरक्षकास्ता वेश्याश्च भृशं विलक्षा जाताः अथ राजा तु कोपाज्जाज्वल्यमानस्वांतः साक्षात्कृतांत इव सभायामागत्य ता वेश्याः समाहूयोवाच, अरे वेश्या युष्मद्भिरप्यहं मासं यावद्विप्रतारितः, अथ पश्यत मत्कोपफलं ? इत्युक्त्वा | राजा तलारक्षकमा कायक्तवान्, भो तलारक्ष ! एताः सर्वा अपि वेश्याः सर्वानारक्षकांश्च पुरमध्ये बाढं विडंव्य गृहसर्वस्वग्रहणपूर्वकं शूलायामारोपय ? अथात्र विषयेऽहं पुनर्न पृष्टव्यः राज्ञ इत्यादेशं श्रुत्वा | सभाजना अपि खेदं प्राप्ताः संत इति चिंतयामासुः - माता यदि विषं दद्यात् । पिता विक्रयते सुतं ॥ | राजा हरति सर्वस्वं । पूत्कर्तव्यं ततः क्व च ॥ ४४ ॥ अथ सा वार्ता नगरमध्येऽपि प्रसिद्धा जाता.
चरित्रम्
॥ ३९ ॥