________________
रूपसेन
॥ ३५ ॥
----
अथ क्रमेणोद्भिन्नयोवनां कुमारीं दृष्ट्वा सर्वा दास्यो भीताः सत्यस्तद्वृत्तांतं पट्टराज्ञ्यै ज्ञापयामासुः. राइया पृष्टास्ता जगुर्हे खामिनि वयमेतद्विषये किमपि न जानीमः परं कुमारीमुद्भिन्नयौवनां वीक्ष्य वयमित्यनुमानं कुर्महे, यत्कोऽपि विद्याधरो भूचरो वाऽदृष्ट एव पुरुषो नूनं कुमारीपार्श्वे समागत्य तथा सह दुराचारं सेवते; वयं त्वेतन्निवेदयामः पश्चादस्माकमुपरि दोषो न देयः अथ विषण्णा राज्ञी तं वृत्तांतं नृपाय जगौ तदा विस्मितेन राज्ञापि तद्विषये मंत्रीश्वराः पृष्टाः, तदा तैरुक्तं हे स्वामिन् तत्र तु सप्तशतमिता आराक्षका रक्षिताः संति, तन्मध्यात्तत्र चेत्कोऽपि समागच्छति तदा तस्य महत् साहसं नूनं ज्ञेयं, परमत्र कोऽपि भेदो ज्ञायते, यतः - -भेदेन दुर्गा गृह्येते । भेदाद्राज्यं विनश्यति । भेदाद्गृहे कलिर्भेदाद् । द्रव्यं चौरा हरंति च ॥ ३४ ॥ ततः क्रुद्धेन नृपेण ते सप्तशतमिताः प्रतोलीप्राहरिकाः स्वसमीपे समाकारिताः, पृथक्पृथक् च पृष्टास्ते कथयामासुः, हे राजन् वयं तु तद्वार्तामपि न विद्मः राज्ञोक्तं रे | दुष्टा यूयं तत्रारक्षकाः संतः कथं तद्वातां नाधिगच्छथ ? को जीवितव्यादुद्विग्नोस्ति ? कस्य ममापि भयं नास्ति ? अहं युष्माकं सर्वेषामपि शिक्षां करिष्यामीत्युक्त्वा राज्ञा तलारक्षकमाहूय तेषां सर्वेषामपि | चौरदंडकरणाय समादिष्टं. यदि चैते कुमारिकाप्रासादप्रवेष्टारं दर्शयंति तदैव मोच्याः अथ तलारक्षे
चरित्रम्
।। ३५ ।।