SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ चोवीशी बीजी । __ श्रीमते सिद्धचक्राद्य-बीजाय परमार्हते । नत्वा तत्पूर्वसेवाया-स्तपोविधिरथोच्यते ॥१॥ आश्विनस्य सिताष्टम्यां, निर्देषायां यथाविधि । कृत्वा श्रीसिद्धचक्रार्चा - माद्याचाम्लो विधीयते ॥२॥ ततश्चाष्टाहिकोत्सवं, कृत्वाऽऽशु नवमे दिने । कृते पञ्चामृतस्नात्रे, ह्याचाम्लो नवमो भवेत् ॥३॥ एवं चैत्रे नवाचाम्ला, भवन्त्येव निरन्तराः । ततोऽर्धपञ्चवर्षेषु, सम्पूर्णं पूर्यते तपः ॥४॥ एकाशीतिर्भवत्येव - माचाम्लानामिहाथवा । अशक्तैरेकभक्ताए - काशीतिर्विधीयते ॥५॥ इत्थं श्रीसिद्धचक्रस्य, तपः कृत्वा ह्युपासकैः । कार्यमुद्यापनं तस्य, यथाशक्तया विवेकिभिः ॥६॥ मण्डलं सिद्धचक्रस्य, चैत्यादौ शुद्धभूतले । सन्मन्त्रपूतैः पञ्चधा-धान्यैरालिख्यते स्फुटम् ॥७॥ तत्राहमिति बीजोर्ध्व-स्थापितप्रतिमाऽग्रतः । स्थाप्यं सन्नालिकेरस्य, सखण्डाज्योरुगोलकम् ॥८॥ सिद्धाद्यष्टदलश्रेणि-रपि पूज्या च गोलकैः । शर्करालिंगकैरा, षोडशानाहतावली ॥९॥ द्राक्षाश्चैकोनपञ्चाश - दष्टवर्गाक्षरोपरि । बीजपूराष्टकं सप्ता-क्षरमन्त्रेषु मण्डयेत् ॥१०॥ खारिकाख्यफलान्यष्ट-चत्वारिंशत्सु लब्धिषु । जयादिषु च जंभीरी-फलान्यष्टौ तु योजयेत् ॥११। गुर्वादिपादुकास्वष्टौ, दाडिमानां फलानि च । चक्राधिष्ठायके चैकं, न्यसेत् कुष्माण्डमुत्तमम् ॥१२॥ यक्षादिषु चतुःषष्टि-पदेषु क्रमुकावलिम् । नवाक्षोटफलानीह, निधिस्थानेषु कल्पयेत् ॥१३॥ -601
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy