________________
नवापि निघयः कण्ठे, नैसर्पिकादयः स्थिताः । सन्तु प्रत्यूहनाशाय, दिक्पालाः सपरिच्छदाः ॥१४॥
इत्थं श्रीसिद्धचक्रं ये, सबीजे क्षोणिमण्डले । आराधयन्ति तेषां स्यु-र्वशे सर्वार्थसिद्धयः ॥१५॥ ___एतदेव परं तत्वमेतदेव परं पदम् ।
एतदाराध्यमेतच्च, रहस्यं जिनशासने ॥१६॥ सुगन्धैः कुसुमैः शालि-तन्दुलै र्वाऽस्य साधकाः । शुचिशीला धुवं सिद्धिं, लभन्ते लवजापतः ॥१७॥ सिद्धे चास्मिन् महामन्त्रे, देवो विमलवाहनः । अधिष्ठातऽस्य चक्रस्य, पूरयत्येव वांछितम् ॥१८॥
शान्तिके पौष्टिके शुक्लं, वश्ये चाकर्षणेऽरुणम् । पीतं स्तम्भेऽसिंतं द्वेष्ये, ध्येय मेतच्च साधकैः ॥१९॥ ___ अर्हमात्मानमाँअग्नि-शुद्धं मायाऽमृतप्लुतम् । सुधाकुम्भस्थमाकण्ठं, ध्यायेच्छान्तिककर्मणि ॥२०॥
आहानं स्थापनं चैव, सन्निधानं च रोधनम् । अर्चनं च विधायात्र, ततः कार्य विसर्जनम् ॥२१॥
लेखनं पूजनं चैव, कुम्भकेनैव कारयेत् । आहानं पूरकेणैव, रेचकेन विसर्जनम् ॥२२॥
एक-द्वि-त्रि-चतुः पंच-शतैरष्टोत्तरैः क्रमात् । स्याच्छिवास्याक्षिभूसंख्य-वर्णजापो महाफलः ॥२३।।
दिक्कालासनमुद्रादि-विधिपीयूषसेकतः । श्री सिद्धचक्रकल्पद्रु-र्वाञ्छितं फलति ध्रुवम् ॥२४॥ ।।इति श्री सिद्धचक्रयन्त्रोद्धारे विधिचतुर्विंशतिका समाप्ता ।
ત્રગ ચોવીશી સિદ્ધચક યંત્ર શું છે તેની પૂજન વિધિ ક્યા પ્રકારે થાય-તેની પૂજાનું ફળ શું મળે તે સર્વ આ આરાધનામાં પ્રથમ ત્રણ ચોવીશીમાં વિસ્તારથી દર્શાવેલ છે.
ચોવીશી એટલે ૨૪ શ્લોક-ત્રણેય ચોવીશ-ચોવીશ શ્લોકમાં વિસ્તારથી ઉપરોક્ત માહિતી દર્શાવવામાં આવી છે.
-599