________________
चोवीशी पहेली ॐ हीं अहँ नमः स्मृत्वा, मूलमन्त्रमथार्हतः । वक्ष्ये श्रीसिद्धचक्रस्य, यन्त्रोद्धारं यथाविधि ॥१॥
पद्ममष्टदलाकारं कल्पयेत् तत्र कर्णिकाम् । ॐ ह्रीं अनाहतैर्वृत्तम्, अहँ बीजं स्वरैवृत्तम् ॥२॥ सिद्धाः पूर्वदले स्थाप्या, दक्षिणे सूरयस्तथा । पाठकाः स्युः प्रतीचीने, साधवस्तूत्तरे दले ॥३॥
आग्नेये दर्शनं सम्यग्, ज्ञानंच, नैर्ऋत्ते दले । वायव्ये शुद्धचारित्र-मैशाने पल्लवे तपः ॥४॥ ___ नवपमिदं पद्म-मद्वितीयं जगत्त्रये । परीतोऽस्य दलानि स्युः षोडशान्तरिते दले ॥५॥
अष्टौ स्वरादयो वर्गा, मन्त्रः सप्ताक्षरस्तथा । वर्गाः सानाहता ज्ञेया, मन्त्रमूलं यतोऽक्षरम् ॥६॥
अष्टवनाहता स्थाप्या-स्तृतीये वलये क्रमांत् । मध्येऽनाहतमष्टाढया-श्चत्वारिंशच्च लब्धयः ॥७॥
हाँकारेण त्रिरेखेण, वेष्टयेत् परीतः समम् । क्रोंकारान्तमिदं ज्ञेयं, वेष्टनं सर्वरक्षणम् ॥८॥ परिधावस्य संस्थाप्या, अष्टौ गुर्वादिपादुकाः । आराध्योऽयं क्रमः पूर्णो, वक्ष्येऽथो यन्त्ररक्षकान् ॥९॥ स्थाप्या दिक्षु जयामुख्या, जम्भामुख्या विदिक्षु च । विमलवाहनाद्या : स्यु-देवताश्चक्ररक्षकाः ॥१०॥
ततश्च वलये विद्या-देव्यः पोडश निर्मलाः । दक्षिणेऽतो विभागे स्यु-श्चतुर्विशतियक्षपाः ॥११॥
चतुर्विशतियक्षिण्यो, वामपाचँ स्थिता वरम् । वीराश्च द्वारपालाश्च, चतुर्दिक्षु शिवंकराः ॥१२॥ इन्द्राद्या दशदिक्पाला, दशस्वपि दिशासु ते । राजन्ते यन्त्रमूले च, सूर्यादया नव ग्रहाः ॥१३॥
-598