________________
पातं योगसूत्र भाग - २ / विभूतिपाह / सूत्र - पपनी उपा. म. सा.नी टिप्पणी “क्लेशपक्तिर्मतिज्ञानान्न किञ्चिदपि केवलात् । तमःप्रचयनि:शेषविशुद्धिप्रभवं हि तत्" ॥१॥
इति गुणविशेषजन्यत्वेऽप्यात्मदर्शनवन्मुक्तौ तस्याव्यभिचारित्वं तुल्यम्, वस्तुतो ज्ञानस्य सर्वविषयकत्वं स्वभाव:, छद्मस्थस्य च विचित्रज्ञानावरणेन स प्रतिबध्यत इति, निःशेषप्रतिबन्धकापगमे ज्ञाने सर्वविषयकत्वमावश्यकम् । तदुक्तं
८०
"ज्ञो ज्ञेये कथमज्ञः स्यात् असति प्रतिबद्धरि ।
दाह्येऽग्निर्दाहको न स्यात् कथमप्रतिबन्धकः " ॥ [ योगबिन्दु - ४३१ ] इति ।
एतेन विवेकजं सर्वविषयकं ज्ञानमुत्पन्नमपि सत्त्वगुणत्वेन निवृत्ताधिकारायां प्रकृतौ प्रविलीयमानं नात्मानमभिस्पृशतीत्यात्मार्थशून्यनिर्विकल्पचिद्रूप एव मुक्तौ व्यवतिष्ठत इत्यप्यपास्तम्, चित्त्वावच्छेदेनैकसर्वविषयकत्वस्वभावकल्पनाद्, अर्थशून्यायां चिति मानाभावाद्, बिम्बरूपस्य चित्सामान्यस्याविवर्तस्य कल्पनेऽचित्सामान्यस्यापि तादृशस्य कल्पनापत्तेः व्यवहारस्य बुद्धिविशेषधर्मैरेवोपपत्तेः, यदि चाचित्सामान्यनिष्ठ एवाचिद्विवर्तः कल्प्यते तदा तुल्यन्यायाच्चिद्विवर्तोऽपि चित्सामान्यनिष्ठ एवाभ्युपगन्तुं युक्तो न तु चिदचिद्विवर्ताधिष्ठानमेव कल्पयितुं युक्तं, नयादेशस्य सर्वत्र द्रव्ये तुल्यप्रसरत्वात्, कौटस्थ्यं त्वात्मनो यच्छ्रुतिसिद्धं तदितरावृत्तिस्वाभाविकज्ञानदर्शनोपयोगवत्त्वेन समर्थनीयम्, निर्धर्मकत्वं चितः कौटस्थ्यमित्युक्तौ तत्र प्रमेयत्वादेरप्यभावप्रसङ्गात्, तथा च "सच्चिदानन्दरूपं ब्रह्म" इत्यादेरनुपपत्तिः, असदादिव्यावृत्तिमात्रेण सदादिवचनोपपादने च चित्त्वमप्यचिद्वयावृत्तिरेव स्यादिति गतं चित्सामान्येनापि, यदि च " उत्पादव्ययध्रौव्ययुक्तं सद्" इति गुणस्थलोपदर्शितरीत्या स ( द्) लक्षणं सर्वत्रोपपद्यते तदा संसारिमुक्तयोरसाङ्कर्येण स्वविभावस्वभावपर्यायैस्तदबाधमानं बन्धमोक्षादिव्यवस्थामविरोधेनोपपादयतीति, एतज्जैनेश्वरप्रवचनामृतमापीय "उपचरितभोगाभावो मोक्षः" इत्यादि मिथ्यादृग्वचनवासनाविषमनादिकालनिपीतमुद्वमन्तु सहृदयाः ! अधिकं लतादौ ॥
अर्थ :
अत्र . चिन्त्यम् - अहीं = त्रीभ पाहना सूत्रोमा या चिंत्य छे-खागजमां जताव्यं ते चिंत्य-वियारवा યોગ્ય છે
-
लब्धिरुपं .... कैवल्यहेतुत्वमपि । सन्धि३५ जेवुं भैश्वर्य समाधि३प संयमयी भन्य नयी अर्थात् આત્મામાં પ્રગટ થતું ક્ષયોપશમભાવસ્વરૂપ લબ્ધિરૂપ ઐશ્વર્ય સમાધિરૂપ સંયમથી જન્ય નથી; કેમ કે વૈચિત્ર્ય પ્રતિયોગી એવા તેનું=અનેક પ્રકારના જુદાજુદા ઐશ્વર્યરૂપ વિચિત્ર પ્રતિયોગી છે જેને એવા લબ્ધિરૂપ ઐશ્વર્યનું વિચિત્ર ક્ષયોપશમાદિન્યપણું અને એક ઠેકાણે ત્રયરૂપ સંયમનો=ધારણા,