________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૯ | પંચમ પ્રસ્તાવ थाय. शुं विल्प थाय ? ते 'यथा' थी जतावे छे વામદેવ વડે તે રત્ન ગ્રહણ કરાયું છે. (એ પ્રમાણે વામદેવ સ્વમતિથી વિકલ્પો કરે છે.) વળી, ફરી આ પ્રદેશમાં જે પ્રમાણે કર્પટથી અવગુંઠિત આ=રત્ન, દટાયું છે તે પ્રમાણે જ અન્ય તેટલા પ્રમાણવાળો=જે રત્ન છે તેટલા કદવાળો, પાષાણ સ્થાપન श्रराय=जोहीने भुझय, तो तेने लेईने विभलने आ प्रहारे विर्त थाय ने 'यथा' थी जतावे छे મારા જ અપુણ્યથી તે રત્ન=રત્નચૂડે આપેલું રત્ન, પાષાણભૂત થયું. અને આ રીતે=પૂર્વમાં સ્વમતિથી વામદેવે વિચાર્યું એ પ્રમાણે વિચારીને, મારા વડે=વામદેવ વડે, તેટલા પ્રમાણવાળો કર્પટથી વીંટળાયેલો પાષાણ તે પ્રદેશમાં દટાયો. ઘરે આવ્યો. તે દિવસ પસાર થયો. રાત્રિ પ્રાપ્ત થઈ, પલંગમાં હું રહ્યો.
वामदेवकृतो रत्नापहारः
समुत्पन्ना मे चिन्ता - अये विरूपकं मया कृतं यन्नानीतं तद्रत्नं, दृष्टः केनचिदहं तथा कुर्वाणः, ग्रहीष्यति कश्चिदन्यस्तद्रत्नं, तदधुना किं करोमीति वितर्ककल्लोलमालाकुलितचित्तवृत्तेश्चित्तसंतापेन विनिद्रस्यैवातीता सर्वाऽपि शर्वरी । प्रभाते च समुत्थायातित्वरितं गतोऽहं पुनस्तं प्रदेशम् । इतश्च समागतो मद्भवने विमलः न दृष्टोऽहमनेन पृष्टो मत्परिजनः क्व वामदेव इति कथितमन्येन यथा क्रीडानन्दनोद्यानाभिमुखं गत इति, ततः समागतो ममानुमार्गेण विमलः, स चागच्छन् दूरे दृष्टो मया, ततः संजाता ममाकुलता, विस्मृतो रत्नप्रदेशः, समुत्खातः पाषाणो, गोपितः कटीपट्यां, कृतो निरुपलक्षः स प्रदेशः, गतोऽहमन्यत्र गहनान्तरे, संप्राप्तो विमलः, दृष्टोऽहमनेन, लक्षितो भयतरललोचनः, ततोऽभिहितमनेन - वयस्य! वामदेव किमेकाकी त्वमिहागतः ? किं वा भीतोऽसि ? मयोक्तं - श्रुतः प्रभाते मया त्वमिहागतः तेनाहमप्यमागतः, ततो न दृष्टस्त्वमत्र तेन संजातो मम हृदये त्रासः क्व कुमारो गत इति चिन्तया, साम्प्रतं तु त्वयि दृष्टे यदि परं स्वस्थो भविष्यामीति, विमलेनोक्तं- यद्येवं ततः सुन्दरमिदं संपन्नं यदिहागतौ साम्प्रतं गच्छावो भगवद्भवने । मयोक्तं - एवं भवतु ।
૮૮
-
-
ततो गतौ जिनमंदिरे, प्रविष्टोऽभ्यन्तरे विमलः, स्थितोऽहं द्वारदेशे, चिन्तितं मया - नूनं विज्ञातोऽहमनेन, ततो नश्यामि त्वरितं इतरथा ममेदमेष रत्नमुद्दालयिष्यति, न चात्र पुरे तिष्ठतो ममास्त्यस्मान्मोक्षः, अतः पतामि निर्देश इति, ततः पलायितोऽहं वेगेन, क्रान्तो बहुविषयं, ऊढस्त्रीणि रात्रिन्दिनानि, गतोऽष्टाविंशतिं योजनानि, छोटितो रत्नग्रन्थिः, दृष्टो निष्ठुरपाषाणः, ततो हा हतोऽस्मीति गतो मूर्च्छा, लब्धा कृच्छ्रेण चेतना, गृहीतः पश्चात्तापेन, प्रारब्धः पलायितुं भ्रष्टोऽहं कथंचित्ततः स्थानात् तत्पुनर्गृह्णामीत्यभिप्रायेण वलितः स्वदेशाभिमुखम्, इतश्च जिनसदनान्निर्गतेन न दृष्टोऽहं विमलेन, ततः संजाता विमलस्य चिन्ता क्व पुनर्गतो वामदेव इति, गवेषितः सर्वत्र कानने न चोपलब्ध:, ततो भवने पुरे च सर्वत्र गवेषितो यावत्तत्रापि न दृष्टः, ततः सर्वदिक्षु प्रहिता ममान्वेषकपुरुषाः, प्राप्तोऽहमेकैः भीतस्तेभ्यः, अभिहितस्तैः यथा वामदेव ! शोकार्त्तस्त्वद्वियोगेन विमलो वर्तते, वयमानेतारस्तवानेन