________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ / ચતુર્થ પ્રસ્તાવ
श्लोकार्थ :
તારા રોષ નામથી પણ તે તપસ્વી મરે છે. તારા સંતોષ માત્ર નામથી પણ જીવે છે. II3II
श्लोक :
तो यन्मुग्धया किञ्चिदपराद्धं तया तव ।
बालया प्रणयात्सर्वं, तद्वत्सः क्षन्तुमर्हति ।।४।
93
श्लोकार्थ :
આથી મુગ્ધપણાથી તે બાળા વડે પ્રેમથી તારો જે કંઈક અપરાધ કરાયો છે હે વત્સ ! તેને ક્ષમા भाटे योग्य छे. ॥४॥
श्लोड :
प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः ।
सस्नेहाऽर्पितचित्तेषु दत्तप्राणा हि साधवः ।।५॥
श्लोकार्थ :
પ્રણામ કરનારાઓમાં દયાવાળા, દીનના ઉદ્ધરણમાં રક્ત, સસ્નેહથી અર્પિત ચિત્તવાળાઓમાં हत्तप्राणवाना साधुजो होय छे. ॥५॥
मातुस्तिरस्कारः
ततश्चेदमम्बया नरसुन्दरीस्नेहसर्वस्वमुत्कीर्त्यमानमाकर्ण्य यावत्किलाहं स्नेहनिर्भरतया तां प्रति प्रगुणो भवामि तावच्छैलराजेन विरचिता कुटिलभ्रुकुटिर्धूनितमुत्तमाङ्गं, दत्तो मदीयहृदये विलेपनचर्चः, ततस्तस्याः सम्बन्धिनमपराधं संस्मृत्य जातो मम पुनश्चित्तावष्टम्भः । ततोऽभिहिता मयाऽम्बा यदुत-न कार्यं मम तया परिभवकारिण्या पापयेति । अम्बयाऽभिहितं - वत्स ! मा मैवं वोचः, क्षन्तव्यो मम लग्नाया वत्सेन तदीयोऽयमेको गुरुरप्यपराधः । ततः पतिता मच्चरणयोरम्बा । मयाऽभिहितं - अपसर त्वमप्यवस्तुनिर्बन्धपरे ! मम दृष्टिपथादपसर, न प्रयोजनं त्वयाऽपि मे, या त्वं मया निःसारितां तां दुरात्मिकां संगृह्णासि, ततश्चरणाभ्यां प्रेरिता मयाऽम्बा । ततो भद्रेऽगृहीतसङ्केते! शैलराजवशवर्तिना मया पापात्मना तथा तिरस्कृता सती लक्षयित्वा मदीयमनिवर्तकमाग्रहविशेषं निराशा मुञ्चन्ती नयनसलिलं यथाऽऽगतमेव प्रतिगताऽम्बा । निवेदितो नरसुन्दर्यै व्यतिकरः, तमाकर्ण्य वज्रनिर्दलतेव मूर्च्छया निपतिताऽसौ भूतले, सिक्ता चन्दनरसेन, समाश्वासिता तालवृन्तवायुना लब्धचेतना रोदितुमारब्धा ।