________________
૪૫
कमारकला
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ | ચતુર્થ પ્રસ્તાવ યુક્ત નથી. તેથી આર્યપુત્ર જ સકલ કલા ઉલ્કાવન કરે. વળી હું એક એક કલામાં સારસ્થાનોના પ્રશ્ન કરીશ. ત્યાં મારા પ્રશ્નોમાં, આર્યપુત્ર વડે નિર્વાહ કરવો જોઈએ. તે સાંભળીને તરવાહત અને નરકેસરી નરેન્દ્ર હર્ષિત થયા. અને લોકો અને સમસ્તરાજકુલ હષિત થયું.
कुमारकलाकौशलविषयकभ्रमनाशः ततस्तातेनाऽभिहितोऽहं-कुमार! सुन्दरं मन्त्रितं राजदुहित्रा, तत्साम्प्रतमुद्ग्राहयतु कुमारः सकलाः कलाः, पूरयत्वस्या मनोरथान्, जनयतु ममाऽऽनन्दं, निर्मलयतु कुलं, गृह्णातु जयपताकां, एषा सा निकषभूमिवर्तते विज्ञानप्रकर्षस्येति । मम तु तदा कलानां नामान्यपि विस्मृतानि । ततो विह्वलीभूतमन्तःकरणं, प्रकम्पिता गात्रयष्टिः, प्रादुर्भूताः प्रस्वेदबिन्दवः, संजातो रोमोद्धर्षः, प्रनष्टा भारती, तरलिते लोचने । ततो हा किमेतदिति विषण्णस्तातः, प्रलोकितं महामतिवदनम् । महामतिराहकिं कर्तव्यमादिशतु देवः । तातेनाभिहितं-किमितीयमीदृशी कुमारशरीरेऽवस्था? ततः कर्णे निवेदितं महामतिना, देव! मनःक्षोभविकारोऽयमस्य । तातः प्राह-किं पुनरस्य मनःक्षोभनिमित्तम् ? महामतिराहदेव! प्रस्तुतवस्तुन्यज्ञानम्, 'भवत्येव हि वागायुधानां सदसि विदुषां सस्पर्धमाभाषितानां ज्ञानाऽवष्टम्भविकलानां मनसि क्षोभाऽतिरेकः' । तातेनाभिहितं-आर्य! कथमज्ञानं कुमारस्य ? ननु सकलकलासु प्रकर्ष प्राप्तः कुमारो वर्तते, ततः संस्मृत्य मदीयदुर्विलसितं गृहीतो मनाक्क्रोधेन कलाचार्यः । ततोऽभिहितमनेन-देव! प्रकर्ष प्राप्तः कुमारः शैलराजमृषावादप्रणीतयोः केवलयोः कलयोन पुनरन्यत्र । तातः प्राह-के पुनस्ते कले? महामतिराह-दुर्विनयकरणमसत्यभाषणं च, एते ते शैलराजमृषावादप्रणीते कले, अनयोश्चात्यन्तं कुशलः कुमारः, न पुनरन्यकलानां गन्धमात्रमपि जानीते । तातः प्राहकथमिदम् ? महामतिनाऽभिहितं-देव! देवस्य दीर्घचित्तसन्तापभीरुभिस्तदैव नाख्यातमिदमस्माभिः, यतो लोकमार्गातीतं कुमारस्य चरितमिदानीमपि देवस्य पुरतस्तत्कथयतो न प्रवर्तते मे वाणी । तातेनाभिहितं-यथावृत्तकथने भवतो नास्त्यपराधः, निःशकं कथयत्वार्यः । ततो कलाचार्येणाऽवज्ञाकरणादिको वेत्रासनाऽऽरोहणगर्भो दुर्वचनतिरस्करणपर्यन्तो निवेदितः समस्तोऽपि मदीयदुर्विलसितवृत्तान्तः । तातेनाऽभिहतं-आर्य! यद्येवं ततो जानताऽपि त्वयाऽस्य कुलदूषणस्य स्वरूपं किमित्ययमेवंविधसभामध्ये प्रवेशितः? ननु विगोपिता वयमाकालमनेन पापेन । महामतिराह-देव! न मयाऽयमिह प्रवेशितः, मद्भवनान्निर्गतस्याऽस्य द्वादश वर्षाणि वर्तन्ते, केवलमकाण्ड एव संजातमद्य मम देवकीयमाकारणं, ततः समागतोऽहं, अयं तु कुतश्चिदन्यतः स्थानादिहागत इति । तातेनाभिहितं-आर्य! यद्येवमपात्रचूडामणिरेष रिपुदारणो गुणानामभाजनतया वर्जितो युष्माभिः तत्किमिति गर्भाधानादारभ्यास्येयन्तं कालं यावत्कल्याणपरम्परा संपन्ना? किमिदानीमेवं लोकमध्ये विगुप्यत इति ।