________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ / ચતુર્થ પ્રસ્તાવ
રિપુદારણ કેવલ આનાથી=મારી પુત્રીથી, અધિકતર થશે અને નર-વાહન સાથે અમારો વિવાહ સંબંધ ઘટે છે. જે કારણથી પ્રધાનવંશવાળો મહાનુભાવ આ=નરવાહન, વર્તે છે. અને મોટા સર્પને જેમ એક રત્નસૂચિ છે તેમ પુત્રરહિત તે રાજાને તે જ એક નરસુંદરી પુત્રી છે. તેથી તેણીનું અત્યંત અભીષ્ટપણું હોવાથી આવા વડે=નરકેસરી વડે, વિચારાયું ત્યાં જ સિદ્ધાર્થપુરમાં પુત્રી નરસુંદરી ગ્રહણ કરીને હું જાઉં. ત્યારપછી નિકટ રહેલો એવો હું તે રિપુદારણની પરીક્ષા કરીને આનો=પોતાની પુત્રીનો, વિવાહ કરું, જેથી મારા ચિત્તની નિવૃત્તિ થાય.
-
४३
नरसुन्दर्या रिपुदारणकलापरीक्षेच्छा
ततः सर्वबलेन समागतो नरकेसरी, ज्ञापितस्तातस्याऽऽगमनवृत्तान्तः, परितुष्टोऽसौ, कारितमुच्छ्रितपताकं नगरं, प्रवेशितो महाविमर्देन नरकेसरी तातेन, दत्तमावासस्थानं, भविष्यति रिपुदारणकुमारस्य नरसुन्दर्या सह कलाकौशलपरीक्षेति ज्ञापितं लोकानां, प्रशस्तदिने सज्जीकारितः स्वयंवरमण्डपः, विरचिता मञ्चाः, मीलितं राजवृन्दं समुपविष्टस्तन्मध्ये सपरिकरस्तातः । समाहूतोऽहं कलाचार्यश्च, प्राप्तोऽहं सह मित्रत्रयेण तातसमीपं महामतिश्च सह राजदारकैः । इतश्च पुण्योदयस्य मदीयदुष्टचेष्टितानि पश्यतश्चित्तखेदेनैव संजातं कृशतरं शरीरं, विगलितं परिस्फुरणं, मन्दीभूतः प्रतापः । ततोऽहमुपविष्टस्ताताऽभ्यर्णे कलोपाध्यायश्च, निवेदितं विनयनम्रेण नरवाहनेन महामतये नरकेसरिराजागमनप्रयोजनम् । तदाकर्ण्य संजातो मे हर्षाऽतिरेकः, स्थितस्तूष्णींभावेन स्वहृदयमध्ये हसन्नुपाध्यायः । अत्रान्तरे समागतो नरकेसरी, परितुष्टो नरवाहनः, दापितं तस्मै महार्हसिंहासनं, उपविष्टः सपरिकरो नरकेसरी । ततस्तदनन्तरं पूरयन्ती जनहृदयसरांसि लावण्याऽमृतप्रवाहेण, अधरयन्ती वरबहिर्कलापं कृष्णस्निग्धकुञ्चितकेशपाशेन, प्रोद्भासयन्ती दिक्चक्रवालं वदनचन्द्रेण, विधुरयन्ती कामिजनचित्तानि लीलामन्थरेण विलासविलोकितेन, दर्शयन्ती महेभकुम्भविभ्रमं पयोधरभरेण, उच्छृङ्खलयन्ती मदनवारणं विस्तीर्णजघनपुलिनेन, विडम्बयन्ती सञ्चारितरक्तराजीवयुगललीलां चरणयुग्मेन, उपहसन्ती कलकोकिलाकुलकूजितं मन्मथोल्लापजल्पितेन, कुतूहलयन्ती वरमुनीनपि प्रवरनेपथ्याऽलङ्कारमाल्यताम्बूलाऽङ्गरागविन्यासेन, परिकरिता प्रियसखीवृन्देन अधिष्ठिता वसुंधरा प्रविष्टा नरसुन्दरी । ततस्तां विलोक्याऽहं हृष्टः स्वचेतसा विजृम्भितः शैलराजः, विलिप्तं स्तब्धचित्तेन तेनाऽवलेपनेन मयाऽऽत्महृदयम् । चिन्तितं च - कोऽन्यो मां विहायैनां परिणेतुमर्हति ? न खलु मकरध्वजादृते रतिरन्यस्योपनीयते । अत्राऽन्तरे विहितविनया तातादीनामभिहिता नरकेसरिणा नरसुन्दरी यदुत - उपविश वत्से ! मुञ्च लज्जां, पूरयाऽऽत्मीयमनोरथान्, प्रश्नय रिपुदारणकुमारं कलामार्गे यत्र क्वचित्ते रोचते । ततो नरसुन्दर्या सहर्षमुपविश्याऽभिहितं - यदाज्ञापयति तातः, केवलं गुरूणां समक्षं न युक्तं ममोद्ग्राहयितुं, तस्मादार्यपुत्र एवोद्ग्राहयतु सकलाः कलाः, अहं