________________
४८
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ વાળો થાય તો જે ઉચિત તે કરજે= તારા દુઃખના નિવારણનો ઉપાય ન જણાય તો, જે તને ઉચિત જણાય તે કરજે.
सदागमादेशेन भव्यस्य स्पर्शनमैत्रीत्यागः पुरुषेणाभिहितं-यदि निर्बन्धस्ततः श्रूयताम्-आसीन्मम शरीरमिव, सर्वस्वमिव, जीवितमिव, हृदयमिव द्वितीयं भवजन्तुर्नाम मित्रं, स चातिस्नेहनिर्भरतया न क्षणमात्रमपि मां विरहयति, किं तर्हि? सकलकालं मामेव लालयति, पालयति, पृच्छति च मां क्षणे क्षणे यदुत-भद्र स्पर्शन! किं तुभ्यं रोचते? ततो यद्यदहं वदामि तत्तदसौ भवजन्तुर्मम वयस्यो वत्सलतया संपादयति न कदाचिन्मत्प्रतिकूलं विधत्ते, अन्यदा मम मन्दभाग्यतया दृष्टस्तेन सदागमो नाम पुरुषः । पर्यालोचितं च सह तेन किञ्चिदेकान्ते भवजन्तुना भावितचित्तेन, हृष्ट इव लक्ष्यते । ततस्तत्कालादारभ्य शिथिलीभूतो ममोपरि स्नेहबन्धः, न करोति तथा लालनां, न दर्शयत्यात्मबुद्धिं, न प्रवर्त्तते मदुपदेशेन, न मम वार्तामपि प्रश्नयति, प्रत्युत मां वैरिकमेव मन्यते, दर्शयति विप्रियाणि, सकलं प्रतिकूलमासेवते । ततो मया चिन्तितम्-हा हन्त किमेतत् ? न मया किञ्चिदस्य व्यलीकमाचरितं, किमित्ययमकाण्ड एव भवजन्तुः षष्ठिकापरावर्तित इवान्यथा संवृत्तः, हा हतोऽस्मि मन्दभाग्य इत्यारारट्यमानो वज्राहत इव, पिष्ट इव, हतसर्वस्व इव, शोकभराक्रान्तमूर्तिः प्राप्तोऽहं दुःखातिरेकम् लक्षितं च कथञ्चित्पर्यालोचयता मया अये! सर्वोऽप्ययं सदागमपर्यालोचजनितोऽनर्थव्यतिकरो, विप्रतारितोऽयं मम वयस्योऽनेन पापेन, स चोन्मूलयन्निव मम हृदयं पुनः पुनस्तेन सदागमेन सह रहसि पर्यालोचयति, तनिवारणार्थं रटन्तमपि मां नाकर्णयति, यथा यथा च भवजन्तोः सदागमपालोचः सुतरां परिणमति तथा तथा मामेष नितरां शिथिलयति, ततः प्रवर्द्धते मे गाढतरं दुःखम् । अन्यदा दृढतरं पर्यालोच्य सदागमेन सह किञ्चिदेकान्ते त्रोटितो मया सह संबन्धः सर्वथैव भवजन्तुना, परिच्छिन्नोऽहं चित्तेन, त्यक्तानि मम वल्लभानि तद्वचनेनैव गृहीतानि यानि पूर्वं कोमलतूलीगण्डोपधानादिसनाथानि शयनानि, विरहितानि हंसपक्ष्मादिपूरितान्यासनानि, मुक्तानि बृहतिकाप्रावाररल्लिकाचीनांशुकपट्टांशुकादीनि कोमलवस्त्राणि, प्रत्याख्यातानि मम सुखदायीनि शीतोष्णर्तुप्रतिकूलतया सेव्यानि कस्तूरिकागरुचन्दनादीनि विलेपनानि, वर्जितः सर्वथा ममालादातिरेकसंपादकः कोमलतनुलताकलितो ललनासंघातः । ततःप्रभृति स भवजन्तुः करोति केशोत्पाटनं, शेते कठिनभूमौ, धारयति शरीरे मलं, परिधत्ते जरच्चीवराणि, वर्जयति दूरतः स्त्रीगात्रसङ्गं, कथञ्चिदापन्ने तस्मिन्करोति प्रायश्चित्तं, सहते माघमासे शीतं, गृह्णाति ज्येष्ठाऽऽषाढयोरातपं, सर्वथा परमवैरिक इव यद्यत्किञ्चिन्मे प्रतिकूलं तत्सर्वमाचरति । ततो मया चिन्तितं-परित्यक्तस्तावत्सर्वथाऽहमनेन, गृहीतश्च शत्रुबुद्ध्या, तथाप्यामरणान्ताः प्रणयाः