________________
४५७
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ तथा सादि सपर्यवसितमनियतसद्भावं च, यथा भव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहिरङ्गं च वर्तते, तथाभव्यतया, संसारकारणं मोक्षकारणं वा भवति, यतो बाहुल्येन द्वितीयकुटुम्बकस्याऽवष्टम्भकारकमिदं अतः संसारकारणं, यदि पुनः कथञ्चिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे सहायं स्यात्, ततश्च मोक्षकारणतां प्रतिपद्यते । तदेवं स्थिते महाराज! यदिदं द्वितीयं कुटुम्बकमस्य मध्ये सर्वेषां संसारिजीवानामेष वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव, नाऽत्र सन्देहो विधेयः नृपतिराह-भदन्त! यदीदमाद्यं कुटुम्बकं स्वाभाविकं हितकरणशीलं मोक्षकारणं च तत्किमितीमे जीवा गाढं नेदमाद्रियन्ते? यदि चेदं द्वितीयकुटुम्बकमस्वाभाविकमेकान्तेनाहितकरणशीलं संसारकारणं च तत्किमितीमे जीवा गाढतरमिदं पोषयन्ति? भगवानाह-महाराज! आकर्णयात्र कारणं-एतदाद्यं कुटुम्बकमनेन द्वितीयकुटुम्बकेनाऽनादौ संसारे सकलकालमभिभूतमास्ते, ततो भयात्तिरोभावं गतस्य तस्य न संपन्नं कदाचिदभिव्यक्तं दर्शनं, ततो न लक्षयन्त्येते वराका जीवास्तत्सम्बन्धिनं गुणकलापं, तेन न तस्योपरि गाढमादरं कुर्वन्ति, विद्यमानमपि तदविद्यमानं मन्यन्ते, तस्य गुणानपि वर्णयन्तमस्मदादिकं न गणयन्ति, एतत्पुनर्द्वितीयं कुटुम्बकमनादौ संसारे शत्रूभूतस्याऽऽद्यकुटुम्बकस्य निराकरणादवाप्तजयपताकं लब्धप्रसरतया वल्गमानं प्रायेण सकलकालमाविर्भूतमेवाऽऽस्ते । ततः संपद्यते तेन सहामीषां जीवानामहर्निशं दर्शनं, ततो वर्धते प्रेमाऽऽबन्धः, समुत्पद्यते चित्तरतिः, संजायते विश्रम्भः, प्रादुर्भवत्यनेन सह प्रणयः, ततोऽस्य द्वितीयकुटुम्बकस्य सततमनुरक्तमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं, समारोपयन्त्यस्याऽसन्तमपि गुणसन्दोहं, तेनेदं गाढतरमेते पोषयन्ति, इदमेवैकं परमबन्धूभूतमस्माकमिति मन्यन्ते, अस्य च दोषप्रकाशकमस्मदादिकं शत्रुबुद्ध्या गृह्णन्ति । नृपतिराह-भदन्त! सुन्दरं भवति, यद्येते तपस्विनो जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुः । भगवानाह-किमतःपरं सुन्दरतरम् ? एतावन्मात्रमेव हि निःशेषकल्याणानि वाञ्छता परमार्थतः पुरुषेण कर्त्तव्यं यदुत-अनयोः प्रथमद्वितीययोः कुटुम्बकयोर्गुणदोषविशेषपरिज्ञानमिति । तथाऽस्माभिरपि जीवानां धर्मकथाभिरेतावन्मात्रमेव संपादनीयं, केवलमेते जीवाः स्वयोग्यतामन्तरेण नानयोर्विशेषं कथञ्चिदपि ज्ञापयितुं शक्यन्ते, तेनाऽयोग्येषु वयमपि गजनिमीलिकां कुर्मः । यदि पुनः सर्वेऽपि जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदाऽऽदित एव संसारोच्छेदः स्यात्, ततो निराकृत्येदं द्वितीयं कुटुम्बकं सर्वेऽपि जीवा मोक्षं गच्छेयुरिति । नृपतिराह-यद्येवमशक्यानुष्ठानं सर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया? अस्माभि-विज्ञातस्तावद् भगवत्पादप्रसादेनाऽनयोः कुटुम्बकयोर्गुणदोषविशेषः, ततः सिद्धं नः समीहितम् ।