________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
સફલતા પ્રાપ્ત થતી હતી. આથી જ તેના ક્રોધી સ્વભાવથી બધા અન્ય બાળકો ભય પામતા હતા અને હંમેશાં તેને અનુકુલ વર્તન કરતા હતા, તે સર્વ સ્થૂલબુદ્ધિથી ક્રોધને કારણે વર્તે છે તેમ નંદિવર્ધનને દેખાતું હતું, પરમાર્થથી તો પૂર્વમાં બાંધેલું તેનું પુણ્ય તપતું હતું જેથી સર્વત્ર સત્કારને પામતો હતો. આ રીતે ક્રોધી સ્વભાવથી વધતો નંદિવર્ધન આઠ વરસનો થયો.
ત્યારે રાજા શું વિચાર કરે છે ? તે હવે બતાવે છે.
c
कलाग्रहणं कलाचार्यं प्रत्यविनयश्च
समुत्पन्ना पद्मनृपतेश्चिन्ता, 'ग्राह्यतामधुना कुमारः कला' इति । ततो निरूपितः प्रशस्तदिवसः, समाहूतः प्रधानः कलाचार्य:, पूजितोऽसौ विधिना, कृतमुचितकरणीयं समर्पितोऽहं तस्य पित्रा महताऽऽदरेणेति, समर्पिताश्च मदीयभ्रातरोऽन्येऽपि बहवो राजदारकाः, प्रागेव तस्य कलाचार्यस्य । ततस्तैः सार्द्धमहं प्रवृत्तः कलाग्रहणं कर्त्तुं ततः संपूर्णतया सर्वोपकरणानां, गुरुतया तातोत्साहस्य, हिततया कलाचार्यस्य, निश्चिन्ततया कुमारभावस्य, सन्निहिततया पुण्योदयस्योत्कटतया क्षयोपशमस्यानुकूलतया तदा भवितव्यताया, अनन्यहृदयतया मया गृहीतप्रायः स्वल्पकालेनैव सकलोऽपि कलाकलापः, केवलमतिवल्लभतया सदा सन्निहितोऽसौ वैश्वानरः, सनिमित्तमनिमित्तं वा करोति मम समालिङ्गनं, ततस्तेन समालिङ्गितोऽहं न स्मरामि गुरूपदेशं, न गणयामि कुलकलङ्क, न बिभेमि तातमनः खेदस्य, न लक्षयामि परमार्थं, न जानाम्यात्मनोऽन्तस्तापं, न वेद्मि कलाभ्यासनिरर्थकत्वं, किन्तु तमेव वैश्वानरमेकं प्रियं कृत्वा तदुपदेशेन गलत्स्वेदबिन्दूरक्तीकृतलोचनो भुग्नभृकुटि : करोमि समस्तदारकैः सह कलहं विदधामि सर्वेषां मम्र्म्मोद्घट्टनं, उच्चारयाम्यसभ्यवचनानि, न क्षमे तेषां मध्यस्थमपि वचनं, ताडयामि प्रत्येकं यथासन्निहितेन फलकादिना, ततस्ते सर्वेऽपि वैश्वानरालिङ्गितं मामवलोक्य भयेन त्रस्तमानसाः सन्तो वदन्त्यनुकूलं कुर्वन्ति चाटूनि आराधयन्ति मां पादपतनैः, किम्बहुना ? मदीयगन्धेनापि ते वीर्यवन्तोऽपि राजदारका नागदमनीहतप्रतापा इव विषधरा न स्वतन्त्रं चेष्टन्ते । ततस्ते समुद्विग्नाः कम्पमाना बन्धनागारगता इव महादुःखेन जननीजनकानुरोधेन कलाग्रहणं कुर्वन्तः कालं नयन्ति, न कथयन्ति तं व्यतिकरं कलाचार्याय मा भूत्सर्वेषां प्रलय इति तथापि नित्यसन्निहितत्वाल्लक्षयत्येव तन्मामकं चेष्टितं सकलं कलाचार्य:, केवलं दारकेषु दृष्टविपाकतया भयेन त्रस्तहृदयोऽसावपि न मम संमुखमपि शिक्षणार्थं निरीक्षते, यदि पुनरन्यव्यपदेशेनापि मां प्रत्येष किञ्चिद् ब्रूयात् ततोऽहमेनमपि कलाचार्यमाक्रोशामि ताडयामि च ततोऽसावपि मयि - राजदारकवद्वर्त्तते ।
भावनया,