________________
પૂ. સિદ્ધર્ષિ ગણિ વિરચિત
ઉપમિતિભવપ્રપંચા કથા
શબ્દશઃ વિવેચન
भाग-3
તૃતીય પ્રસ્તાવ : ક્રોધ-હિંસા-સ્પર્શનેન્દ્રિય વિપાકવર્ણન
श्लोक :
अर्हं नमः ।
श्री शंखेश्वरपार्श्वनाथाय नमः । एँ नमः ।
:
भवप्रपञ्चस्तिर्यक्षु वर्त्तमानस्य देहिनः । एष प्रोक्तो मनुष्यत्वे, यत्स्यात्तदधुनोच्यते । । १ । ।
શ્લોકાર્થ
તિર્યંચમાં રહેલા જીવનો આ ભવપ્રપંચ કહેવાયો=બીજા પ્રસ્તાવમાં કહેવાયો. મનુષ્યપણામાં જે थाय= लवप्रपंच थाय, ते हवे हेवाय छे. ॥१॥
जन्ममहोत्सवः
संसारिजीव उवाच-ततोऽहं भद्रे ! अगृहीतसङ्केते ! समास्वादितैकभववेद्यगुटिकः प्रवृत्तो गन्तुम् । इतश्चास्त्यस्यामेव मनुजगतौ नगर्यां भरताभिधानः पाटकः, तस्य च विशेषकभूतमस्ति जयस्थलं नाम नगरम् तत्र च महानृपतिगुणसंपदालिङ्गितमूर्त्तिः पद्मो नाम राजा, तस्य च रतिरिव मकरकेतनस्य नन्दा नाम प्रधानदेवी । ततोऽहं तस्याः कुक्षौ प्रवेशितो भवितव्यतया, स्थितस्तत्रोचितकालं, निर्गतः सह पुण्योदयेन दृष्टो नन्दया, संपन्नस्तस्याः पुत्रो मम जात इत्यभिमानो, निवेदितः प्रमोदकुम्भाभिधानेन दासदारकेण नरपतये, प्रादुर्भूतः सुतो मे इति समुत्पन्नस्तस्याप्यनुशयः हर्षविशेषादुल्लसितो गात्रेषु पुलकोद्भेदः, दापितं निवेदकदारकाय पारितोषिकं, समादिष्टो मज्जन्ममहोत्सवः । ततो दीयन्ते