________________
१५४
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ तेनाम्बरचरेणाभिहितं-महाराज! सिद्धं ते समीहितं, लब्धोऽयं मया प्रस्तुतविद्यासिद्धरुचितः सलक्षणः पुरुषः, इतरेणोक्तं-'महाप्रसादः' ततोऽभिहितो नभश्चरेण स पुरुषः-यदुत-एकैकस्मिन् विद्याजापपर्यन्ते मया दत्ताऽऽहुतिरग्नौ भवता प्रक्षेप्तव्या, प्रतिपत्रमनेन, प्रारब्धो जापः । ततो विद्याधरेणाकृष्टा यम-जिवेवातितीक्ष्णा भास्वराकारा शस्त्रिका, तया चोत्कर्त्तिता मदीयपृष्ठात्तेन दीर्घा मांसपेशी, निष्पीड्य तत एव प्रदेशाद् निर्गालितं रुधिरं, भृतश्चुलुकः । अत्रान्तरे समाप्तमितरस्यैकं विद्यापरावर्त्तनं, समर्पिता विद्याधरेण सा रुधिरमांसमयी तस्याहुतिः, प्रक्षिप्ता तेनाग्निकुण्डे, पुनः प्रारब्धो जापः, ततश्चैवं सोऽम्बरचरो मदीयशरीरपरापरप्रदेशानरकपाल इव नारकस्यारटतो मे मांसपेशीमुत्कर्त्तयति, तं प्रदेशं निष्पीड्य रुधिरं निर्णालयति, तस्य चुलुकं भृत्वा साधकायाहुतये ददाति, स च विद्यापरावर्त्तनसमाप्तौ गृहीत्वा हुताशने प्रक्षिपति, ततो वेदनाविह्वलो मूर्च्छया पतितोऽहं भूतले, विद्याधरस्तु प्रगुणशरीरतया हृष्टो निष्करुणो गाढतरं मां विकर्त्तयति । अत्रान्तरेऽट्टहासैर्हसितमिव गगनेन, गर्जितमिव प्रलयमेघैः, गुलगुलितमिव समुद्रेण, प्रचलितेव पृथिवी, रसितं दीप्तिजिह्वाभिः शिवाभिः, प्रनृत्तं च विकृतरूपैर्वेतालैः, निपतितं रुधिरवर्षम् । ततश्चैवंविधेषु रौद्रेषु बिभीषिकाविशेषेषु सत्स्वप्यक्षुभितचित्तस्य राज्ञोऽभिमुखीभूता सा क्रूरविद्या, समाप्तं जापस्याष्टशतं, ततः सिद्धाऽहं भवत इति वदन्ती प्रकटीभूता विद्या, प्रणता साधकेन, प्रविष्टा तच्छरीरे । ततः समुत्कर्तितशरीरं, निष्पीडितरुधिरबीभत्सं, करुणमारटन्तं मामुपलभ्य स राजा मयि जातः सदयः कृतोऽनेन दन्तसीत्कारः ततो वारितोऽसौ विद्याधरेण । अभिहितं च तेन-राजन्! एष एवास्या विद्यायाः कल्पो यदुत-न कर्त्तव्याऽस्योपरि दया, ततो विद्याधरेण लिप्तं मे केनचिल्लेपेन शरीरं, ततोऽहं समन्ताद्दन्दह्यमान इव तीव्रवह्निना, चूर्ण्यमान इव वज्रेण, पीड्यमान इव यन्त्रेण प्रविष्टो वेदनाप्रकर्ष, तथापि सुबद्धं न गतमेतन्मे हतजीवितं, संजातं मे क्षणेन तेन लेपेन दवदग्धस्थाणुकल्पं शरीरं, समुत्पाटितस्ताभ्यां, नीतस्तत्र नगरे, खादितश्च श्वयथुनिमित्तमाम्लभोजनं, शूनं [शून्यं. मु] मे शरीरं, ततो भूयस्तेनैव विधिना मदीयमांसरुधिराहु-तिभिस्तेन राज्ञा कृतमष्टशतमष्टशतं विद्याया जापस्य सप्त दिनानीति, दृष्टश्च तदवस्थोऽहं भवता, तदिदं भ्रातः! मयानुभूतं, स्थितं च मम हृदये यदुत न प्रायेण नरकेऽप्येवंविधो दुःखविन्यासो, यादृशो मयाऽनुभूत इति ।
- બાલનો વૃત્તાંત કેટલાક દિવસો પસાર થયા, બાલ થોડો સબલ થયો. મધ્યમબુદ્ધિ વડે પુછાયો, હે ભાઈ ! તારા વડે શું અનુભવ કરાયું? તે બાળ કહે છે. અહીથી=પ્રસ્તુત નગરથી, વિદ્યાધર વડે તારા જોતાં જ હું બાંધીને ઊંચે ફેંકાયો, અતિભીષણપણાને કારણે યમરાજતા નગરના આકારવાળા શ્મશાનમાં લઈ