________________
૧૨૧
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ ભોગની પ્રવૃત્તિ કરવી જોઈએ. જેથી મૂઢતાનો ઉદય થાય નહીં. અન્યથા મૂઢતાના ઉદયને કારણે પ્રાપ્ત થયેલું સમ્યગ્દર્શન પણ નાશ પામે છે. આ પ્રકારે ભાવન કરીને સમ્યગ્દર્શનનો પ્રગટ થયેલો પરિણામ જે ક્ષયોપશમભાવરૂપે વર્તે છે, તેને વજની ભીંત જેવો મજબૂત કરવો જોઈએ. જેથી ક્યારેય તે ક્ષય પામે નહીં.
ततोऽमुं व्यतिकरमालोक्य श्रुत्वा च भगवद्वचनं ऋजुप्रगुणामुग्धाकुटिलानामपि प्रादुर्भूतः पश्चात्तापेन सह विशुद्धाध्यवसायः । ऋजुप्रगुणाभ्यां चिन्तितं-अहो अलीकसुतवधूद्विगुणितव्यामोहेन निरर्थकं विडम्बितं, विहिता सुतवध्वोरुन्मार्गप्रवृत्तिरावाभ्यामिति । मुग्धेन चिन्तितं-अहो कृतं मया परस्त्रीगमनेन कुलस्य दूषणम् । अकुटिलया चिन्तितं-बत संजातं मे शीलखण्डनमिति । ततश्चतुर्णामपि स्थितमेतच्चित्ते यदुत-निवेदयाम एवंस्थितमेवेदं भगवतां, एत एवास्य दुश्चरितस्य प्रतिविधानमुपदेक्ष्यन्ति । अत्रान्तरे चतुर्णामपि शरीरेभ्यो निर्गतैः परमाणुभिर्घटितशरीरं, शुक्लं वर्णेन, परिगतं तेजसाऽऽह्लादकं लोचनानां, प्रीणकं चेतसामुपलभ्यमानं 'मया रक्षितानि मया रक्षितानि यूयमिति' ब्रुवाणमेकं डिम्भरूपं सहर्ष भगवन्मुखमीक्षमाणं स्थितं सर्वेषां पुरतः, तावत्तदनुमार्गेणैव कृष्णं वर्णेन बीभत्समाकारेण उद्वेगहेतुः प्राणिनां तथैव निर्गतं द्वितीयं डिम्भरूपं, तस्माच्च तदाकाररूपधरमेव क्लिष्टतरं प्रकृत्या संजातमन्यदपि तृतीयं डिम्भरूपं, तच्च वर्द्धितुमारब्धं, ततः शुक्लडिम्भरूपेण मस्तके हस्ततलप्रहारं दत्त्वा तद्वर्द्धमानं निवार्य प्रकृत्या धारितं, निर्गते च भगवदनुग्रहात् द्वे अपि ते कृष्णे डिम्भरूपे । ततो भगवताभिहितंभो भद्राणि (द्राः?)! यद्भवद्भिश्चिन्तितं यथा कृतमस्माभिर्विपरीताचरणमिति न तत्र भवद्भिर्विषादो विधेयः, यतो न भवतामेष दोषो, निर्मलानि(लाः) यूयं स्वरूपेण । तैरभिहितं-भगवन्! कस्य पुनरेष दोषः? भगवानाह-यदिदं शुक्लानन्तरं भवच्छरीरेभ्यो निर्गतं कृष्णवर्णं डिम्भरूपं अस्यायं दोषः । तान्याहुः-भगवन् किन्नामकमिदम् ? भगवतोक्तं-अज्ञानमिदमुच्यते, तैरुक्तं-भगवन्! यदिदमेतस्मादज्ञानात्प्रादुर्भूतं द्वितीयं कृष्णडिम्भरूपं, अनेन च शुक्लरूपेणास्फोट्य वर्द्धमानं धारितमेतत्किंनामकम् ? भगवानाह-पापमिदं, तान्याहुः-अस्य शुक्लडिम्भरूपस्य तर्हि किमभिधानम्? भगवतोक्तंआर्जवमिदमभिधीयते । ततस्तान्याहुः-भगवन्! कीदृशमिदमज्ञानम् ? कथं चेदं पापमेतस्माज्जातम् ? किमिति चानेनार्जवेनेदं विवर्द्धमानं धारितम् ? इति सर्वं विस्तरतः श्रोतुमिच्छामः ।
भगवानाह-यद्येवं ततः समाकर्णयत यूयम्તેથી=કાલજ્ઞ અને વિચક્ષણાએ પોતાના પાપનું ગુરુ આગળ પ્રકાશન કર્યું તેથી, આ વ્યતિકરને જોઈને=આ પ્રસંગને જોઈને, અને ભગવાનનું વચન સાંભળીને=ધર્માચાર્યના ઉપદેશથી માંડીને અત્યારસુધીમાં સર્વ વચનોને સાંભળીને, ઋજુરાજાને, પ્રગુણા રાણીને, મુગ્ધરાજકુમાર અને અકુટિલાને પણ પશ્ચાતાપથી સહિત=અમે અનુચિત કર્યું છે તેવા પરિણામથી સહિત, વિશુદ્ધ અધ્યવસાય પ્રગટ થયો. ઋજુ અને પ્રગુણા દ્વારા વિચારાયું – ખરેખર મિથ્થા પુત્ર અને વધૂતા દ્વિગુણિત વ્યામોહથી નિરર્થક