________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
१०७
टोs:
एकेन सुतेन सुतद्वयं, वध्वा जातमथो वधूद्वयम् ।
खादत पिबताथ सज्जनाः! गायत वादयताथ नृत्यत ।।१।। श्लोार्थ:
એક પુત્રથી બે પુત્ર, એક વધૂથી બે વધૂ થઈ. હે સજ્જનો! તમે ખાઓ, પીઓ, ગાયન કરો, वाभि sो, नृत्य 5. I|१|| __ततः प्रगुणापि महादेवी एतदेव नरेन्द्रोक्तमनुवदन्ती वादितानन्दमर्दलसन्दोहबधिरितदिगन्ता विहितोर्श्वभुजा नत्तितुं प्रवृत्ता, द्विगुणाहं संपन्नेति गता हर्षमकुटिला, प्रनृत्ताः शेषान्तःपुरिकाः, प्रमुदितं नगरं, वृत्तो बृहता विमर्दैन महानन्द इति ।
ત્યારપછી રાજા વડે કહેવાયેલું એ જ બોલતી, આનંદના વાજિંત્રતા સમૂહ વડે બધિર કર્યા છે દિશાના અંત જેણે એવી, કરી છે ઊંચી ભુજા જેણે એવી પ્રગુણા મહાદેવી પણ વાચવા માટે પ્રવૃત્ત થઈ. હું દ્વિગુણ થઈ એ પ્રમાણે અકુટિલા હર્ષને પામી, શેષ અંતઃપુરિકા નાચવા લાગ્યા. આખું નગર પ્રમુદિત થયું, મોટા વિમર્દનથી=મોટા પ્રસંગથી, મહાનંદ પ્રવત્યોં.
कालज्ञविचक्षणयोश्चिन्तनम् केलिप्रियतया हृष्टः कालज्ञः । केवलं चिन्तितमनेन-का पुनरेषा द्वितीया योषित् संजातेति । उपयुक्तो ज्ञानेन, ज्ञातमनेन-सैवैषा मदीयभार्या विचक्षणेति । ततः संजातः क्रोधः, चिन्तितमनेन, मारयाम्येनं दुराचारं पुरुष, एषा पुनरमरतया न शक्यते मारयितुं, तथाप्येवं पीडयामि यथा न पुनः परपुरुषगन्धमपि प्रार्थयते । एवं कृतनिश्चयस्याप्यस्य कालज्ञस्य तथाभवितव्यतया प्रवृत्ताऽर्थपर्यालोचना, स्फुरितं चित्ते-यथा न सम्यग् चिन्तितमिदं मया, न पीडनीया तावद्विचक्षणा, यतोऽहमपि न शुद्धाचारो, ममापि समानोऽयं दोषः, मारणमपि मुग्धस्य न युक्तं, यतो मारितेऽस्मिन्नन्यथाभावं विज्ञाय न भजते मामकुटिला, विरज्यते सुतरां विचक्षणा, तत्किमकुटिलां गृहीत्वाऽदृष्टस्वकलत्रधर्षणः इतोऽपक्रमामि? एतदपि नास्ति, यतोऽकाण्डप्रस्थाने न स्वाभाविकोऽयमिति लक्षितविकारा कदाचिदकुटिला मां न भजते, तया रहितस्य पुनर्गमनमनर्थकमेव, तस्मादीpधर्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति । विचक्षणयापि चिन्तितं-अये! स एवायं मदीयभर्ता कालज्ञोऽनेन रूपेण स्थितः, कुतोऽन्यस्यात्र संभव इति । ततः कथमस्य पुरतः परपुरुषेण सह तिष्ठामीति संजातलज्जा अयमन्यां भजत इति समुत्पन्नेा दुःशकमेवं स्थिते स्थातुमित्याविर्भूताकुलभावा गताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्ती न चान्या गतिरस्तीति निरालम्बा । साऽपि यद्भविष्यत्तया कालविलम्बमेवाश्रित्य