________________
૧૦૪
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ / તૃતીય પ્રસ્તાવ છે. તેથી ઊઠ, કુસુમના ઉપચય નિમિત્તે આપણે જઈએ, એન=કુસુમના સમૂહને, લાવીએ. અકુટિલા વડે કહેવાયું. જે આર્યપુત્ર આજ્ઞા કરે, તેથી મણિથી યુક્ત સુવર્ણની મૂર્પિકાને ગ્રહણ કરીને ગૃહઉપવનમાં ગયા, કુસુમનો સંચય પ્રારંભ કરાયો, મુગ્ધ કહ્યું – હે દેવી ! આપણે જોઈએ કોણ સુવર્ણ સુપિંકાને જલ્દી પૂરે છે? તું અવ્ય દિશામાં જા, હું અન્ય દિશામાં જાઉં છું, અકુટિલા વડે કહેવાયું – એ પ્રમાણે થાઓ, કુસુમ ઉપચયને કરતાં પરસ્પર દર્શનપથથી અતીત ગહતાંતરમાં એ બંને ગયાં.
कालज्ञविचक्षणाभ्यां मुग्धाऽकुटिलरूपग्रहणम् अत्रान्तरे कथञ्चित्तं प्रदेशमायातं व्यन्तरदेवमिथुनकम् । कालज्ञो देवो विचक्षणा देवी, तेन च गगनतले विचरताऽवलोकितं तन्मानुषमिथुनं, ततोऽचिन्त्यतया कर्मपरिणतेरतिसुन्दरतया तस्य मानुषमिथुनस्याऽपर्यालोचितकारितया मन्मथस्य, मदनजननतया मधुमासस्यातिरमणीयतया प्रदेशस्य, केलिबहलतया व्यन्तरभावस्यातिचपलतयेन्द्रियाणां, दुर्निवारतया विषयाभिलाषस्यातिचटुलचारितया मनोवृत्तेस्तथाभवितव्यतया च तस्य वस्तुनः कालज्ञस्याभूदकुटिलायां तीव्रोऽनुरागः तथैव च मुग्धस्योपरि विचक्षणायाः, ततः कितैनां वञ्चयामीतिबुद्ध्या कालज्ञेनाभिहिता विचक्षणा-देवि! व्रज त्वमग्रतः तावद्यावदहमितो राजगृहोपवनाद्देवार्चननिमित्तं कतिचित्कुसुमान्यादायागच्छामि । सा तु मुग्धहृदयतया स्थिता मौनेन, गतोऽकुटिलाभिमुखं कालज्ञोऽवतीर्णो घनतरगहने अदर्शनीभूतो विचक्षणायाः । चिन्तितमनेन-अये! किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयोदेशवर्ति वर्त्तते, ततः प्रयुक्तमनेन विभङ्गज्ञानं, लक्षितं तयोर्दरीभवनकारणम् । ततोऽयमेवात्रोपाय इति विचिन्त्य कृतमनेन देवशक्त्याऽऽत्मनो वैक्रियं मुग्धरूपं, निर्वर्तिता कनकसूर्पिका, भृता कुसुमानां, गतोऽकुटिलासमीपं, ससंभ्रममाह च-जिताऽसि प्रिये! जिताऽसि, ततः कथमार्यपुत्रो झटित्येवायातो जिताऽहमपीति विलक्षीभूता मनागकुटिला । कालज्ञेनाभिहितं-प्रियेऽलं विषादेन, स्वल्पमिदं कारणं, केवलं निर्वर्तितोऽधुना कुसुमोच्चयो, व्रजावोऽमुष्मिन्नुपवनविभूषणे कदलीलतागृहे । प्रतिपन्नमनया, ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयम् । इतश्च विचक्षणया चिन्तितं-अये! गतस्तावदेष कालज्ञः, ततो यावदयं नागच्छति यावच्चेयं नारी दूरे वर्त्तते तावदवतीर्य मानयाम्येनं रतिवियुक्तमकरकेतनाकारं तरुणं, करोम्यात्मनो जन्मनः साफल्यं, लक्षितश्चानयापि विभङ्गज्ञानेनैव तयोर्दूरीभवनहेतुः, ततो विधायाऽकुटिलारूपं कुसुमभृतकनकसूर्पिका गता मुग्धसमीपम्, आह च-जितोऽसि, आर्यपुत्र! जितोऽसि, ततः ससंभ्रमं तां निरीक्ष्य मुग्धः प्राह-प्रिये! सुष्ठु जितः, किमधुना क्रियताम्? विचक्षणयोक्तं-यदहं वदामि, मुग्धः प्राह-किं तत् ? विचक्षणाऽऽह व्रजामो लताभवनं, मानयामो विशेषतः सदुपवनश्रियं, प्रतिपत्रमनेन ।