________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ बालेनाभिहितं-कस्तस्य सेवनोपायः? स्पर्शनेनोक्तं-अहम् । बालो जगाद-कथम् ? स्पर्शनः प्राहअस्ति मे योगशक्तिः, तयाऽहं प्राणिनां शरीरमनुप्रविश्य बहिरन्तश्च क्वचिल्लीनस्तिष्ठामि, ततश्च ते यदि भक्तिपुरःसरं मामेव ध्यायन्ति, कोमलललितस्पर्शनसंबन्धं कुर्वन्ति, ततो निरुपमं सुखं लभन्ते, तेनाहं सुखसेवनस्योपायः । मनीषिणा चिन्तितं-अये! रचितोऽनेनावयोर्वञ्चनप्रपञ्चः । बालेनाभिहितं-वयस्य! तत्किमियन्तं कालं न नावेदितमिदमस्माकम् ? अहो वञ्चिता वयमधन्याः सत्यप्येवंविधे सुखोपाये तदनासेवनेन । अहो ते गम्भीरता यदेवंविधामपि योगशक्तिमात्मनो न प्रकटयसि, तदिदानीमपि कुरु प्रसाद, दर्शय कुतूहलं, व्यापारय योगशक्तिं, भवावयोः सुखसेवनहेतुरिति । ततः किं क्रियतामेतदिति दृष्टिविकारेणैव दर्शयता साकूतेन निरीक्षितं मनीषिणो वदनं स्पर्शनेन, ततः पश्यामि किं तावत् करोतीति संचिन्त्य मनीषिणाऽभिहितं-वयस्य! क्रियतां बालभाषितं, कोऽत्र विरोधः? ततः स्पर्शनेन विरचितं पद्मासनं, स्थिरीकृतः कायः, परित्यक्तो बहिर्विक्षेपः, निश्चलीकृता दृष्टिः, समर्पिता नासिकाऽग्रे, निबद्ध हत्पौण्डरीके मानसं, धृता धारणा, संजाता तत्प्रत्ययैकतानता, समापूरितं ध्यानं, निरुद्धाः करणवृत्तयः, आविर्भूतः स्वरूपशून्य इवार्थनिर्भासः, संजाता समाधिः, विहितोऽन्तर्धानहेतुः संयमः, कृतमन्तर्धानं, अनुप्रविष्टो मनीषिबालयोः शरीरं, अधिष्ठितः स्वाभिमतप्रदेशः, विस्मितौ मनीषिबालौ, प्रवृत्ता द्वयोरपि कोमलस्पर्शेच्छा । ततो बालो मृदूनि शयनानि, सुखान्यासनानि, कोमलानि वसनानि, अस्थिमांसत्वग्रोमसुखदायीनि संवाहनानि, ललितललनानामनवरतसुरतानि, ऋतुविपर्यस्तवीर्याणि सुखस्पर्शविलेपनानि, अन्यानि चोद्वर्त्तनस्नानादीनि स्पर्शनप्रियाणि गृद्धो मूर्छितः सततमासेवते । तच्च शयनादिकं भस्मकव्याधिरिव भक्तपानं स्पर्शनः समस्तमुपभुङ्क्ते । बालस्य तु गार्थ्यव्याधिविह्वलीभूतचित्तस्य सन्तोषस्वरूपस्वास्थ्यविकलतया पामाकण्डूयनमिव परमार्थतस्तद्दःखकारणमेव, तथाऽप्यसौ विपर्यासवशेन तदुपभोगे सति चिन्तयतिअहो मे सुखं, अहो मे परमानन्दः । ततो मिथ्याभावनया परमसुखसन्दर्भनिर्भरः किलाहमिति वृथा निमीलिताक्षोऽनाख्येयं रसान्तरमवगाहते । मनीषी पुनर्मदुस्पर्शेच्छायां प्रवर्त्तमानायामेवं भावयतिअये ! स्पर्शनजनितोऽयं मम विकारो, न स्वाभाविकः, परमरिपुश्चायं मम वर्त्तते, सुनिर्णीतमिदं मया, ततः कथमयं सुखहेतुर्भविष्यति? इति मत्वा तदनुकूलं न किञ्चिदाचरति । अथ कथञ्चित्प्रतिपन्नोऽयं मित्रतयाऽनुवर्तनीयस्तावदितिभावनया कालयापनां कुर्वाणस्तदनुकूलमपि किञ्चिदाचरति तथापि तस्य लौल्यरोगविकलतया सन्तोषामृतस्वस्थीभूतमानसस्य रोगरहितशरीरस्येव सुपथ्यानं तच्छयनादिकमुपभुज्यमानं सुखमेवोत्पादयति, तथापि नासौ तत्राभिष्वङ्गं विधत्ते, ततो न भवत्यागामिनोऽपि दुःखस्याऽऽबन्धः ।