________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૨ | દ્વિતીય પ્રસ્તાવ
श्लोड :
स भूरिनरसङ्घातपरिवारितविग्रहः । अशेषभावसद्भावं, वदन्नास्ते सदागमः ।।४२।।
श्लोकार्थ :
ઘણા મનુષ્યના સમૂહથી પરિવારિત શરીરવાળા એવા તે સદાગમ અશેષભાવના સદ્ભાવને हेता जेठेला छे. ॥४२॥
श्लोक :
अथागृहीतसङ्केता, सख्याः पार्श्वे समागता ।
नत्वा सदागमं साऽपि, निषण्णा शुद्धभूतले ।।४३॥
७८
श्लोकार्थ :
હવે સખીની પાસે આવેલી અગૃહીતસંકેતા, સદાગમને નમસ્કાર કરીને તે પણ=અગૃહીતસંકેતા शुद्धभूमिमा जेठी. ॥४३॥
श्लोड :
पृष्टा प्रियसखीवार्ता, मानितो राजदारकः ।
स्थिता सदागममुखं पश्यन्ती स्तिमितेक्षणा ॥ ४४॥
श्लोकार्थ :
પ્રિયસખીને વાર્તા પુછાવાઈ, રાજપુત્રને માન અપાયું, સદાગમના મુખને જોતી સ્થિર દૃષ્ટિવાળી अगृहीतसंडेता जेठी. ॥ ४४ ॥
संसारिजीवनामतस्करस्य सदागमशरणस्वीकारः
इतश्चैककालमेवैकस्यां दिशि समुल्लसितो वाक्कलकलः, श्रूयते विरसविषमडिण्डिमध्वनिः, समाकर्ण्यते दुर्दान्तलोककृतोऽट्टहासः, ततः पातिता तदभिमुखा समस्तपर्षदा दृष्टिः, यावत् विलिप्तसमस्तगात्रो भस्मना, चर्चितो गैरिकहस्तकैः, खचितस्तृणमषीपुण्ड्रकैः, विनाटितो ललमानया कणवीरमुण्डमालया, विडम्बितो वक्षःस्थले घूर्णमानया शरावमालया, धारितातपत्रो जरत्पिटकखण्डेन, बद्धलोत्रो गलैकदेशे, आरोपितो राषभे, वेष्टितः समन्ताद्राजपुरुषैः, निन्द्यमानो लोकेन, प्रकम्पमानशरीरः तरलतरमितश्चेतश्चातिकातरतया भयोद्भ्रान्तहृदयो दशापि दिशो निरीक्षमाणो, नातिदूरादेव दृष्टः संसारिजीवनामा तस्करः तं च दृष्ट्वा संजाता प्रज्ञाविशालायाः करुणा, चिन्तितमनया- 'यदि परमस्य