________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૨ | દ્વિતીય પ્રસ્તાવ જ=કર્મપરિણામરાજાનું સંપૂર્ણ રાજ્ય કાલપરિણતિરાણીને આધીન છે આથી જ, ચંદ્રિકાને જેમ ચંદ્ર, મકરધ્વજને જેમ રતિ, લક્ષ્મીને જેમ કેશવ, પાર્વતીને જેમ શંકર મૂકતો નથી, તેમ વિરહનું કાયરપણું હોવાથી તે કાલપરિણતિ મહાદેવીને તે કર્મપરિણામ મહારાજા ક્યારેય એકાકી મૂકતો નથી. તો શું કરે છે ? તેથી કહે છે. સર્વત્ર જતો અને રહેતો પોતાના સંન્નિહિત તેણીને ધારણ કરે છે અને તે પણ=કર્મપરિણતિરાણી પણ, ભર્તામાં=કર્મપરિણામરાજામાં, દૃઢરાગવાળી તેનું વચન પ્રતિકૂલ કરતી નથી. પરસ્પર અનુકૂલપણાથી દંપતીનો પ્રેમ નિરંતર પ્રાપ્ત થાય છે. અન્યથા નહીં. તેથી તે પ્રકારે વર્તમાન તે બેનો ગાઢ, નિરૂઢ, પ્રાપ્ત થયેલો પ્રેમ છે તેના વિચલનની આશંકા=તે બંનેના પ્રેમના વિચલનની આશંકા વિચ્છિન્ન છે.
૨૨
तत्कृतविचित्रनाटकनिर्देशः
ततश्चासौ कालपरिणतिर्गुरुतया महाराजप्रसादस्य, उन्मादकारितया यौवनस्य, तुच्छतया स्त्रीहृदयस्य, चञ्चलतया तत्स्वभावानां कुतूहलतया तथाविधविडम्बनस्य, सर्वत्र लब्धप्रसराऽहं प्रभवामीति मन्यमाना युक्ता सुषमदुष्षमादिभिः शरीरभूताभिः प्रियसखिभिः परिवेष्टिता समयावलिकामुहूर्त्तप्रहरदिनाहोरात्रपक्षमासत्र्त्वयनसंवत्सरयुगपल्योपमसागरोपमावसर्पिण्युत्सर्पिणीपुद्गलपरावर्त्तादिना परिकरेण विविधकार्यकरणक्षमाऽस्मि लोकेऽहमिति संजातोत्सेकाऽस्मिन्नेव कर्मपरिणाममहाराजप्रवर्त्तिते चित्रसंसारनाटके तस्यैव राज्ञो निकटोपविष्टा सती साहङ्कारमेवं निमन्त्रयति, यदुत - यान्येतानि योनिजवनिकाव्यवहितानि पात्राणि तिष्ठन्ति (तानि) मद्वचनेन निर्गच्छन्तु शीघ्रम् । एतानि च निर्गतानि उपगतरुदितव्यापाराणि गृह्णन्तु मातुः स्तनम्, पुनर्धूलीधूसराणि रङ्गन्तु, भूमी, पुनर्लुठमानानि पदे पदे परिष्वजन्तु चरणाभ्यां कुर्वन्तु मूत्रपुरीषविमर्द्दनबीभत्समात्मानम् । पुनरतिक्रान्तबालभावानि धारयन्तु कुमारतां, क्रीडन्तु नानाविधक्रीडाबिब्बोकैः, अभ्यस्यन्तु सकलकलाकलापकौशलम् । पुनरतिलङ्घितकुमारभावान्यध्यासयन्तु तारुण्यम्, दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवेकिलोकहास्यकारिणोऽनपेक्षितनिजकुलकलङ्काद्यपायान् कटाक्षविक्षेपादिसारान् नानाकारविलासविशेषानिति, प्रवर्तन्तां पारदार्यादिष्वनार्यकार्येषु। पुनरपगततारुण्यानि स्वीकुर्वन्तु मध्यमवयस्तां, प्रकटयन्तु सत्त्वबुद्धिपौरुषपराक्रमप्रकर्षम्। पुनरतिवाहितमध्यमवयोभावानि संश्रयन्तु जराजीर्णतां दर्शयन्तु वलीपलिताङ्गभङ्गकरणविकलत्वमलजम्बालाविलशरीरतां समाचरन्तु विपरीतस्वभावतां, पुनर्व्यवकलितसकलजीवितभावानि देहत्यागेन नाटयन्तु मृतरूपताम् । ततः पुनः प्रविशन्तु योनिजवनिकाभ्यन्तरे, अनुभवन्तु तत्र गर्भकलमलान्तर्गतानि विविधदुःखानि पुनश्च निर्गच्छन्तु रूपान्तरमुपादाय कुर्वन्त्वेवमनन्तवाराः प्रवेशनिर्गमनम्। तदेवं सा कालपरिणतिर्महादेवी तेषां संसारनाटकान्तर्गतानां समस्तपात्राणामवस्थितरूपेण क्षणद्वयमप्यासितुं न ददाति, किन्तर्हि ? क्षणे क्षणे वराकाणि तान्यपरापररूपेण परावर्त्तयति, किञ्च