________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
336
ભોગાદિની ઇચ્છા મંદ છે, જે સંતોષનો પરિણામ છે, તેના કા૨ણે ચિત્ત અસંગભાવવાળું વર્તે છે. તે ગુણને તે જીવ જાણે છે. અને પૂર્વમાં આત્મકલ્યાણની ઇચ્છા હોવા છતાં ભોગાદિમાં ગાઢ મૂર્ચ્છને કારણે અધિક અધિક મેળવવાની લાલસારૂપ જે અસંતોષ હતો તદ્દન્ય વિહ્વળતારૂપ દોષને તે જીવ જાણે છે. તેથી હંમેશાં પ્રાપ્ત થયેલા ભોગોમાં સંતુષ્ટ રહીને જ્ઞાનાદિની વૃદ્ધિમાં યત્ન કરે છે. તેથી સબુદ્ધિથી પ્રેરાયેલા એવા તેને ઉત્તરના ગુણોની પ્રાપ્તિ થાય છે. જેનાથી પૂર્વ પૂર્વ કરતાં અધિક અધિક ચિત્તમાં પ્રમોદ થાય છે. उपनय :
सद्बुद्धिदत्तसावधानी दोलायितमनश्च
ततो यथा तेन वनीपकेन तया सबुद्ध्या परिचारिकया सह पर्यालोचितं - भद्रे ! किन्निमित्तः खल्वेष मम देहचेतसोः प्रमोदः ? तया च कदन्नलौल्यवर्जनं भेषजत्रयासेवनं च तस्य कारणमाख्यातं, तत्र युक्तिश्चोपन्यस्ता तदिहापि समानमेव, तथाहि - सबुद्ध्यैव सह पर्य्यालोचयन्त्रेष जीवो लक्षयति यदुत - यदेतत्स्वाभाविकं देहमनोनिवृत्तिरूपं सुखमाविर्भूतं मम अस्य निबन्धनं विषयादिष्वभिष्वङ्गत्यागो ज्ञानाद्याचरणं च, तथाहि - प्रागभ्यासवशेन विषयादिषु प्रवर्त्तमानोऽप्येष जीवः सद्बुद्धिकलितः सन्नेवं भावयति-न युक्तमीदृशं विधातुं मादृशां ततो गृद्धिविकलतया निवर्त्तते चेतसोऽनुबन्धः, ततः संपद्यते प्रशमसुखासिकेत्ययमत्र युक्तेरुपन्यासो विज्ञेय इति ।
ततः यदुपलब्धसुखरसेन तेन रोरेण तस्याः परिचारिकायाः पुरतोऽभिहितं यदुत - भद्रे ! सर्वथाऽधुना मुञ्चामीदं कदन्नं, येनात्यन्तिकमेतत्सुखं मे संपद्यत इति, तयोक्तंचाविंदं केवलं सम्यगालोच्य मुच्यतां भवता, यतस्तेऽत्यन्तवल्लभमेतद्, ततो यदि मुक्तेऽपि तवात्र स्नेहबन्धोऽनुवर्त्तते तद्वरतरमस्याऽत्याग एव, यतस्तीव्रलौल्यविकलतया भुञ्जानस्यापीदं भेषजत्रयाऽऽ सेवनगुणेनाधुना याप्यता ते विद्यते, साऽपि चात्यन्तदुर्लभा, यदि पुनरस्य सर्वत्यागं विधाय त्वमेतद्गोचरं स्मरणमपि करिष्यसि ततो रोगा भूयोऽपि प्रकोपं यास्यन्ति, तद्वचनमाकर्ण्य तस्य दोलायिता बुद्धिः, किं करवाणीति न संजातो मनसि निश्चय इति। तदिदमत्रापि जीवे तुल्यं वर्त्तते, तथाहि - यदाऽयं सांसारिककार्येषु चित्तानुबन्धत्रोटन ज्ञानाद्याचरणे दृढमनुरक्ततया गृहस्थावस्थायामपि वर्त्तमानो विज्ञातसंतोषसुखस्वरूपो भवति, तदाऽस्याऽविच्छिन्नप्रशमसुखवाञ्छया प्रादुर्भवत्येव सर्वसंगत्यागबुद्धिः, पर्य्यालोचयति चात्मीयसद्बुद्ध्या सार्द्धं यदुत - किमहमस्य विधाने समर्थो न वेति ? ततः सद्बुद्धिप्रसादादेवेदमेष लक्षयत्येव, यथाअनादिभवाऽभ्यासवशेन स्वरसप्रवृत्तिरेष जीवो विषयादिषु ततो यदि निःशेषदोषनिवृत्तिलक्षणां भागवतीमपि दीक्षामुररीकृत्य पुनरयं तामनादिरूढकर्मजनितां प्रकृतिमनुवर्तमानो विषयादिस्पृहयाऽप्यात्मानं विडम्बयिष्यति, ततोऽस्यादित एव तदनङ्गीकरणं श्रेयस्करं यतस्तीव्राभिष्वङ्गरहितो विषयादिषु