________________
૨૯૪
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
Gधनय :
कदन्नदोषपरमानगुणोपनयः (धर्मधनादीनां गुणदोषाः) ततो यथा तेन सूपकारेण तस्मै भिक्षाचराय निवेदिताः पुनर्विशेषतः कदन्नदोषाः, उपपादिता तस्य युक्तितस्त्याज्यरूपता, दूषितं कालान्तरे तदभिप्रेतं तस्य निर्वाहकत्वं, प्रशंसितमात्मीयं परमानं, प्रकटितं तस्य सर्वदा दानं, समुत्पादितो महाप्रभावाञ्जनसलिलदायकत्वनिदर्शनेनात्मविश्रम्भातिरेकः, अभिहितश्चासौ द्रमकः- 'किं बहुनानेन? मुञ्चेदं स्वभोजनं, गृहाणेदममृतकल्पं मदीयमनमिति तथा सद्धर्मसूरयोऽपि सर्वं कुर्वन्ति, तथाहि-तेऽपि जीवाय निवेदयन्ति धनविषयकलत्रादे रागादिहेतुतां, दीपयन्ति कर्मसञ्चयकारणतां, प्रकाशयन्ति दुरन्तानन्तसंसारनिमित्तता, वदन्ति च यथा-भद्र ! यत एव क्लेशेनोपाय॑न्ते खल्वेते धनविषयादयः, क्लेशेन चानुभूयन्ते, पुनश्चागामिनः क्लेशस्य कारणभावं भजन्ते अत एवैते परित्यागमर्हन्ति। अन्यच्च-भद्र ! तवाप्येते मोहविपर्यासितचेतसि सुन्दरबुद्धिं जनयन्ति, यदि पुनस्त्वं चारित्ररसमास्वादयसि ततोऽस्माभिरनुक्त एव नैतेभ्यो मनागपि स्पृहसे, को हि सकर्णकोऽमृतं विहाय विषमभिलषति?, यत्पुनरस्मदीयोपदेशसंपाद्यस्य चारित्रपरिणामस्य कादाचित्कत्वेनानिर्वाहकत्वं धनविषयकलत्रादेस्तु प्रकृतिभावगमनेन सदाभावितया च निर्वाहकत्वं मन्यसे तदपि मा मंस्थाः, यतो धनादयोऽपि धर्मरहितानां न सकलकालभाविनो भवन्ति, भवन्तोऽपि न प्रेक्षापूर्वकारिणा निर्वाहकतयाऽङ्गीकर्त्तव्याः, न हि समस्तरोगप्रकोपनहेतुरपथ्यान्नं सकलकालभावुकमपि निर्वाहकमित्युच्यते, सर्वानर्थसार्थप्रवर्तकाश्चैते धनादयः, तस्मान्नैतेषु सुन्दरा निर्वाहकत्वबुद्धिः, न यं प्रकृति वस्य, यतोऽनन्तज्ञानदर्शनवीर्यानन्दरूपोऽयं जीवः, अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते, अत एव चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववीर्यं नोल्लसति, तदुल्लासे पुनः स एव निर्वाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः, तबलेनैव महापुरुषा अपहस्तयन्ति परिषहोपसर्गान्, अवधीरयन्ति धनादिकं, निर्दलयन्ति रागादिगणं, उन्मूलयन्ति कर्मजालं, तरन्ति संसारसागरं, तिष्ठन्ति सततानन्देऽनन्तकालं शिवधाम्नीति। किञ्च मत्संपादितेन ज्ञानेन किं न जनितस्तवाज्ञानतमोविलयः? किं वा दर्शनेन नापास्तो विपर्यासवेतालः? येन मद्वचनेऽप्यविश्रब्धबुद्धिरिव विकल्पं कुरुषे, तस्माद् भद्र ! विमुच्येदं भववर्द्धनं धनादिकमङ्गीकुरु मम दययोपनीतमेतत् चारित्रं, येन संपद्यते ते निःशेषक्लेशराशिविच्छेदः, प्राप्नोषि च शाश्वतं स्थानमिति ।