________________
૨૮૮
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ તે આવા પ્રકારની ગુણવાળી આ વિરતિ આત્મવેરીપણાને કારણે કેમ તારા વડે સ્વીકારાતી નથી? એ પ્રમાણે સદ્ધર્મગુરુઓ તે જીવને ભાવગતી પ્રવ્રયાનું પ્રત્યક્ષફલ બતાવે છે. Gपनय :
कदन्नत्यागवचनविह्वलीभतद्रमककथनोपनयः तदेतद्धर्मगुरुवचनमाकर्ण्य यथाऽसौ द्रमकस्तस्मिन्पुरुषे संजातविश्वासोऽपि तथाऽऽविर्भूतनिर्णयोऽपि यथाऽत्यन्तहितकारी ममायं पुरुष इति, तथापि तस्य कदन्नस्य त्याजनवचनेन विह्वलीभूतो दैन्यमालम्ब्येत्थमभिहितवान् यदुत- यदेतद् गदितं नाथैस्तत्समस्तमवितथं प्रतिभाति मे चेतसि, केवलमेकं वचनं विज्ञापयामि तदाकर्णयत यूयं, यदेतन्मां भोजनं त्याजयन्ति भवन्तस्तत्प्राणेभ्योऽप्यभीष्टतमं, नाहमेतद्विरहे क्षणमपि जीवामि, महता च क्लेशेन मयेदमुपार्जितं, किं च कालान्तरेऽपि निर्वाहकं ममैतद्, भवदीयस्य पुनर्भोजनस्य न जानेऽहं स्वरूपं, किं चानेन ममैकदिनभाविनेति? तत्किमत्र बहुना जल्पितेन? एष मे निश्चयो-नैवेदं भोजनं मोक्तव्यं, यदि विद्यमानेऽप्यस्मिन्त्रात्मीयं भवद्भिर्भोजनं दातुं युक्तं, ततो दीयतामितरथा विनैव तेन सरिष्यतीति। तथाऽयमपि जीवः कर्मपरतन्त्रतयाऽविद्यमानचरणपरिणामः सद्धर्मगुरूणामग्रतः समस्तमपीदृशं जल्पत्येव, अस्त्येव तदाऽस्य गुरुषु विश्रम्भः, सञ्जातो ज्ञानदर्शनलाभेन संप्रत्ययः, तथापि न निवर्तते धनादिभ्यो गाढमूर्छा, धर्मगुरवश्चारित्रं ग्राहयन्तस्तत्त्याजनं कारयन्ति, ततोऽस्य जीवस्य संजायते दैन्यं, ततोऽयं ब्रूते-सत्यमेतत्सर्वं यदाज्ञापयन्ति भगवन्तः, किन्तु श्रूयतां भवद्भिरेका मदीया विज्ञप्तिका-गृद्धोऽयमात्मा मदीयो गाढं धनविषयादिषु, न शक्यते तेभ्यः कथञ्चित्रिवर्त्तयितुं, म्रियेऽहं त्यागे नूनमेतेषां, महता च क्लेशेन मयैते समुपार्जिताः, तत्कथमहमेतानकाण्ड एव मुञ्चामि, किं च मादृशाः प्रमादिनो न युष्माभिरुपदिष्टाया विरतेः स्वरूपमवबुध्यन्ते, किन्तर्हि ? मादृशामिदमेव कालान्तरेऽपि धनविषयादिकं चित्ताभिरतिकारणं, युष्मदीयं पुनरनुष्ठानं राधावेधकल्पं, किं तेन मादृशाम्? भगवतामप्यस्थान एवायं निर्बन्धः, तथाहि-महताऽपि प्रयत्नेन, तत्त्वे शिष्टेऽपि पण्डितैः। प्रकृतिं यान्ति भूतानि, प्रयासस्तेषु निष्फलः।।१।। अथैवमपि स्थिते भवतामाग्रहः, ततो दीयतामेतेषु धनविषयादिषु विद्यमानेषु यदि देयमात्मीयं चारित्रमितरथा पर्याप्तं ममानेनेति। Guनयार्थ :
દ્રમક કદન્નત્યાગના વચનથી વિસ્વલીભૂત થયો તે કથનનો ઉપનય તે આ સદ્ધર્મગુરુના વચનને સાંભળીને જે પ્રમાણે આ દ્રમક તે પુરુષમાં સંજાત વિશ્વાસવાળો પણ અને જે પ્રમાણે મને અત્યંતહિતકારી આ પુરુષ છે એ પ્રમાણે આવિર્ભૂત નિર્ણયવાળો પણ છે.