________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
भयकुमारायते, गम्भीरतया क्षीरनीरेश्वरायते, स्थिरतया सुमेरुशिखरायते, शौर्येण धनञ्जयायते, धनेन धनदायते, दानेन कर्णायते, नीरोगतया वज्रशरीरायते, प्रमुदितचित्ततया महर्द्धिविबुधायते ? ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति । द्वितीयः पुनर्बीभत्सदर्शनतया भुवनमुद्वेजयति, दुष्टचेष्टतया मातापितरावपि सन्तापयति, मूर्खशेखरतया पृथ्वीं विजयते, तुच्छतयाऽर्कशाल्मलीतूलमतिशेते, चपलतया वानरलीलां विडम्बयति, कातरतया मूषककदम्बकमधरयति, निर्द्धनतया रोराकारमाबिभर्त्ति, कृपणतया टक्कजातीयानतिलङ्घयति, महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्यमुत्पादयति, दैन्योद्वेगशोकाद्युपहतचित्ततया घोरमहानरकाकारं सन्तापं स्वीकुरुते, ततश्चैवं समस्तदोषभाजनतया लोकैः पापिष्ठोऽयमिति निन्द्यते । अन्यच्चद्वयोः पुरुषयोरनुपहतसत्त्वबुद्धिपौरुषपराक्रमयोर्निःशेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थं प्रवर्त्तमानयोः किमित्येको यद्यदारभते कृषिं, पाशुपाल्यं, वाणिज्यं, राजादिसेवामन्यद्वा तदर्थं कर्म तत्तत्सफलतामुपगच्छति, इतरस्य पुनस्तदेव कर्म न केवलं विफलं संपद्यते, किन्तर्हि ? पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्यापत्त्या प्रत्युत निःशेषयति । अन्यच्चेदमपि चिन्तनीयं, यदुत - द्वयोरेव पुरुषयोर्निरुपचरिताः पञ्चप्रकाराः शब्दादिविषयाः क्वचिदुपनमन्ते तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति, द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिकं कारणमुत्पद्यते ? येन वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति न ह्येवंविधानां विशेषाणां जीवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते, न चाकारणं किञ्चिद् भवितुमर्हति, यदि पुनरकारणा एवंविधा विशेषा भवेयुः ततः सर्वदा भवेयुः यथाऽऽकाशं, न वा कदाचिद् भवेयुर्यथा शशविषाणादयो, यतश्चैते क्वचिद् भवन्ति, क्वचिन्न भवन्ति, तस्मान्नैते निष्कारणा इति गम्यते । अत्रान्तरे गृहीतार्थः स जीवो ब्रूयात् - भगवन् ! किं पुनरेतेषामुत्पादकं कारणम् ? ततो धर्मगुरवो वदेयुः - भद्र - आकर्णय, समस्तानामपि जीवगतानां सुन्दरविशेषाणां धर्म एवान्तरङ्गं कारणं भवति, स एव हि भगवानेनं जीवं सुकुलेषूत्पादयति निःशेषगुणमन्दिरतां नयति समस्तान्यनुष्ठानान्यस्य सफलयति, उपनतभोगाननवरतं भोजयति, अन्यांश्च समस्तशुभविशेषान् संपादयति, तथा सर्वेषामपि जीवगतानामशोभनविशेषाणामधर्म एवान्तरङ्गं कारणं, स एव हि दुरन्तोऽमुं जीवं दुष्कुलेषूत्पादयति, निःशेषदोषनिवासतां प्रापयति सर्वव्यवसायानस्य विफलयति, उपनतभोगोपभोगविघ्नभूतं शक्तिवैकल्यं जनयति अपरांश्चामनोज्ञाननन्तान् विशेषानस्य जीवस्याधत्ते । तस्माद् यद्बलेनैताः समस्तसम्पदः, स एव धर्मः प्रधानः पुरुषार्थः ' अर्थकामौ हि वाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण संपद्येते, धर्मवतां पुनरतर्कितौ स्वत एवोपनमेते, अतोऽर्थकामार्थिभिः पुरुषैः परमार्थतो धर्म एवोपादातुं युक्तः, तस्मात्स एव प्रधान इति । यद्यप्यनन्तज्ञानदर्शनवीर्या
૨૫૯