________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
૨૫૫
બોધ પામતો=અર્થતા માહાભ્યનો બોધ પામતો, એવો તે જીવ સ્વબોધતા સૂચન માટે પોતાની ગ્રીવાને હલાવે છે, લોચકોને વિસ્ફારિત કરે છે. મુખતે વિકસિત કરે છે. સુંદર સુંદર આ મહાત્માએ સુંદર ઉપદેશ આપ્યો. સુંદર ઉપદેશ આપ્યો. તે પ્રકારે ધીમે ધીમે બોલે છે. તેનાથી તે જીવતા મુખના ભાવથી, તે લિંગો વડે આને સાંભળવાનું કુતૂહલ થયું છે એ પ્રમાણે ભગવાન ધર્મગુરુઓ તેને જાણે છે તેના શ્રવણકુતૂહલને ધર્મગુરુઓ જાણે છે. Guनय :
कामपुरुषार्थख्यातिः ततः सादरतरं पुनस्ते ब्रूयुः- भो भो लोकाः ! काम एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि-न खलु ललितललनावदनकमलमकरन्दास्वादनचतुरचञ्चरीकताऽऽचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां स्वीकुरुते, किञ्च-अर्थनिचयस्य, कलाकौशल्यस्य, धर्मार्जनस्य, जन्मनश्च काम एव वस्तुतः परमं फलं, कामविकलैः पुनः किमेतैः सुन्दरैरपि क्रियते?। अन्यच्चकामासेवनप्रवणचेतसां पुरुषाणां तत्सम्पादका धनकनककलत्रादयो योग्यतया स्वत एवोपतिष्ठन्ते, संपद्यन्ते भोगिनां भोगा इति गोपालबालाबलादीनामपि सुप्रसिद्धमिदं, अपि चस्मितं न लक्षण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैर्हदयोपगृहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम् ।।१।। अतः किन्न पर्याप्तं तेषाम् ? तस्मात्काम एव प्रधानः पुरुषार्थः, अत एवाभिहितम्कामाख्यः पुरुषार्थोऽयं, प्राधान्येनैव गीयते । नीरसं काष्ठकल्पं हि, धिक्कामविकलं नरम् ।।१।। तदेतदाकर्ण्य स जीवो हर्षप्रकर्षेण स्वहृदयादप्युत्कलितः प्रकाशमेवं ब्रूयात् साधु साधु ! उदितं भट्टारकैः, बहोः कालादद्य सुन्दरं व्याख्यानमारब्धं, यद्येवं दिने दिने कथयथ ततो वयमक्षणिका अपि सन्तोऽवहितचित्ततयाऽऽकर्णयाम इति। तदेतद्धर्मगुरुभिः स्वसामर्थ्येन तस्य जीवस्य मुखमुद्घाटितमित्यवगन्तव्यम्। एवं च वदति तस्मिन् जीवे धर्मगुरूणामिदं मनसि वर्त्तते, यदुत-पश्यत अहो महामोहविजृम्भितं, यदेते तदुपहताः प्राणिनः प्रसङ्गकथितयोरप्यर्थकामकथयो रज्यन्ते, न पुनर्यत्नतोऽपि कथ्यमानायां धर्मकथायां, तथाहि-इहास्माभिरर्थकामप्रतिबद्धचेतसां क्षुद्रप्राणिनामभिप्रायो वर्णितः। अयं तु वराकस्तत्रैव सुन्दरताबुद्धिं विधत्ते, तथाऽप्यस्य श्रवणाभिमुखीकरणेन सफलोऽस्मत्परिश्रमः, सर्वथा मच्चिन्तितप्रतिबोधोपायबीजेन मुक्तोऽङ्कुरो, भविष्यत्यस्य मार्गावतारः, इत्येवं स्वचेतस्यवधार्य तैरभिधीयते-भद्र ! वयं यथावस्थितवस्तुस्वरूपप्रकाशनं कुर्म एव, नालीकं जल्पितुं जानीमः,