________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
उपनय :
२४३
प्रसह्य अञ्जनप्रयोगः
ततो यथा तेन रसवतीपतिना 'शलाकाग्रे तदञ्जनं विन्यस्य तस्य द्रमकस्य गाढमाधून तो ग्रीवामञ्जिते लोचने, तदनन्तरमेव तेन प्रह्लादकतया शीततयाऽचिन्त्यगुणयोगितया चाञ्जनस्य पुनश्चेतना लब्धा, ततश्चोन्मीलितं चक्षुः, प्रशान्ता मनाङ् नेत्रबाधा, विस्मितेन च तेन किमेतदिति चिन्तितं' तदत्रैवं योजनीयं - यदाऽयं जीवः प्रथमं प्रतिपद्य भद्रकभावं, रोचयित्वा भगवच्छासनं, नमस्कृत्त्यार्हबिम्बानि, पर्युपास्य साधुलोकं, विधाय धर्मपदार्थजिज्ञासां, कृत्वा दानादिप्रवृत्तिमुत्पाद्य धर्मगुरूणामात्मविषयां पात्रबुद्धिं पुनः क्लिष्टकर्मोदयेन विस्तरधर्मदेशनादिकं किञ्चिन्निमित्तमासाद्य परिभ्रष्टपरिणामो भवति, ततश्च न गच्छति चैत्यालये, नाऽऽलीयते साधूपाश्रये, न वन्दते दृष्टमपि साधुलोकं, नामन्त्रयति श्रावकजनं, निवारयति स्वगृहे दानादिप्रवृत्तिं, पलायते दूरदृष्टेभ्योऽपि धर्मगुरुभ्यः, विधत्ते पृष्ठतस्तदवर्णवादादिकं, ततस्तं तथाभूतं नष्टविवेकचेतनमवगम्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपायाञ्जनं निदधते, कथम् ? बहिर्भूम्यादौ कथञ्चिदकाण्डदृष्टस्य कुर्वन्ति प्रियसंभाषणं, दर्शयन्ति हितबुद्धि, प्रख्यापयन्त्याञ्जसभावं उत्पादयन्त्यविप्रतारकप्रत्ययं पुरुषविशेषं तद्भावं चोपलक्ष्य वदन्ति च - 'भद्र ! किं नागम्यते साधूपाश्रये ? किन विधीयते भवताऽऽत्महितम् ? किं विफलीक्रियते मनुष्यभवः ? किन विज्ञायते शुभाशुभविशेषः ? किमित्यनुभूयते पशुभावो भवता ? वयं हि भवत एवेदं पथ्यमिति भूयो भूयोऽभिदध्महे, तदिदं सर्वं शलाकाञ्जनस्थापनकल्पं विज्ञेयं, सज्ज्ञानहेतुतया कारणे कार्योपचारादिति' । तदेतदाकर्ण्य ततोऽसौ अष्टोत्तराणि विरचयन्त्रेवं ब्रूयात् - भो भोः श्रमणाः ! गाढमक्षणिकोऽहं, न सरति मे भगवत्समीपमागच्छतो, निर्व्यापाराणां हि धर्मचिन्ता भवति, मादृशां पुनरन्यत्र गतानां सीदति कुटुम्बादिकं, न प्रवर्त्तते गृहेतिकर्त्तव्यतेति, न वहति वाणिज्यं, न संपद्यते राजसेवा, विस्तरयति कृषिकर्मादिकमिति । तदेतत्समस्तं शिरोधूननमभिधीयते ।
पनार्थ :
દ્રમકને પ્રકટપણે અંજનનો પ્રયોગ
ત્યારપછી=તે મહાનસનિયુક્ત તે દ્રમકના રોગનો ઉપાય વિમલાલોક આદિ છે તેમ નિર્ણય કર્યો ત્યારપછી, તે રસોઈયા વડે ‘શલાકાના અગ્રમાં તે અંજનને સ્થાપન કરીને ગ્રીવાને ગાઢ આધૂનન કરતા તે દ્રમકની=અંજન આંજવા માટે નિષેધ કરતા એવા તે ભિખારીતી, બે આંખોને અંજિત કરાઈ. તઅનંતર જ=ચક્ષુમાં અંજન આંજ્યું તઅનંતર જ, અંજનનું પ્રહ્લાદકપણું હોવાથી, શીતલપણું હોવાથી અને અચિંત્યગુણયોગીપણું હોવાથી ફરી તેના વડે=તે દ્રમક વડે, ચેતના પ્રાપ્ત
थ.