________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
૨૨પ द्रमकस्य कुविकल्पकल्लोलमालास्तदुपनयश्च यत् पुनरभिहितं यदुत-आकारणसमनन्तरं तं तथाभूतमत्यादरमालोक्य स रोरश्चिन्तयति स्म, यथा-मामन्यदा भिक्षां प्रार्थयमानमपि लोका निराकुर्वन्ति, तिरस्कारपूर्वं वा किञ्चिद्ददति, अधुना पुनरेष सुवेषो नरेन्द्राकारः पुरुषः स्वयमागत्य मामाकारयति, भिक्षा ते दीयत इति च मामुपप्रलोभयति, तत्किमिदमाश्चर्यम् ? ततस्तुच्छाभिप्रायवशेन पर्यालोचयतस्तस्य चेतसि परिस्फुरितं, हन्त ! नैवैतत्सुन्दरं मम प्रतिभासते, मन्मोषणार्थः खल्वेष प्रारम्भो, यतो भृतप्रायमिदं भिक्षाया भाजनं मामकीनं, तदेष विजने नीत्वा मां निश्चितमेतदुद्दालयिष्यति, एवञ्च स्थिते किं मयाऽधुना विधेयम् ? किमित एव स्थानात् सहसा नश्यामि? उतोपविश्य तावद् भक्षयामीदं भाजनस्थं भोजनम्? आहोस्विन्न कार्यं मम भिक्षयेति प्रतिषेधं विधाय पदमपि न चलामि? किं वा वञ्चयित्वैनं पुरुषं कुत्रचित् सत्वरं प्रविशामि? कथं कुर्वतो ममास्मान्मोक्षो भविष्यतीति न जाने, यावदेवं निश्चिन्वन् विकल्पमालाकुलचेताश्चिन्तयति तावत्तस्य प्रवर्त्तते प्रबलं भयं, प्रसर्पति तृष्णा, शुष्यति हृदयं, विह्वलीभवत्यन्तरात्मा, मूर्छातिरेकाभिभूतचित्तवृत्तेः संरक्षणानुबन्धि प्रादुर्भूतं महारौद्रध्यानं, निरुद्धः करणग्रामप्रसरः, मीलिते विलोचने, नष्टा चेतना, न जानीते क्वाहं नीतः, कुत्र वा स्थितः? केवलं निखातकाष्ठकील इवोर्खाकारोऽवतिष्ठते। सा तु तद्दया गृहाणेदं भोजनमिति भूयो भूयः समाकुला व्याहरति स्म, तथाऽपि स निष्पुण्यको द्रमकः सर्वरोगकरं तुच्छं यत्तदात्मीयं कदशनं तत्संरक्षणानुबन्धेन नष्टात्मा तां कन्यकां समस्तरोगहरामृतास्वादपरमानदानार्थं व्याहरन्तीं वराको नावबुध्यत इति तदिदं समस्तं जीवेऽपि समानवगन्तव्यं, तथाहि-यदाऽस्य हितचिकीर्षया भगवन्तः सद्धर्मगुरवो विस्तरेण धर्मगुणानुपवर्ण्य पुनश्चतुर्विधधर्मानुष्ठानमुपदिशन्ति तदाऽयं जीवो मिथ्याज्ञानमहातमःकाचपटलतिमिरकामलावलेपलुप्तविवेकलोचनयुगलदीधितिप्रसरोऽनादिभवाभ्यस्तमहामिथ्यात्वोन्मादसन्तापविधुरितहृदयः प्रबलचारित्रमोहनीयरोगकदम्बकविह्वलचेतनस्तत्र विषयधनकलत्रादिके गाढमूर्छयाऽभिभूतचित्तवृत्तिः सन्नेवं चिन्तयतियावदहं पूर्वं धर्माधर्मविचारपर्येषणां नाकार्षं तावदेते श्रमणाः क्वचिदुपलभ्यमाना अपि न मम वार्तामपि पृष्टवन्तो, यद्यपि ते कथञ्चित् क्वचिदवसरे मां धर्मगोचरं किञ्चिद् ब्रूयुः, तथाऽप्यनादरेण वचनं वा द्वेषेण वा, इदानीं पुनर्मां धर्माधर्मजिज्ञासापरमवगम्य गतोऽयमस्माकमादेशगोचरमिति मत्वा स्वगलतालुशोषमवगणय्योच्चैर्ध्वनिना महता वचनरचनाटोपेन स्वयमदृष्ट एवैष लोकप्रकाशः श्रमणो मम पुरतो धर्मगुणानुपवर्णयति, मां चाक्षिप्तचित्तमुपलभ्य दानं दापयति, शीलं ग्राहयति, तपश्चारयति, भावनां भावयति। तदियतोऽकाण्ड एव स्फुटाटोपस्यास्य हन्त को गर्भार्थः? आ ज्ञातम्, अस्ति मे सुन्दरकलत्रसङ्ग्रहः, विद्यते नानाकारो द्रविणनिचयः, सम्भवति भूरिरूपो धान्यप्राग्भारः,