________________
૨૧૦
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ कस्यचित्संपद्यते, अयं चेह भव एवातिक्लिष्टमनोवाक्कायप्रसरोऽवधारितोऽस्माभिः, तदिदं पूर्वापरविरुद्धमिव प्रतिभासते, यतः कथमेवंविधपापोपहतसत्त्वे भगवदवलोकना प्रवर्त्तते, सा हि प्रवर्त्तमाना जीवस्य मोक्षसम्पादकत्वेन त्रिभुवननाथत्वमक्षेपेण जनयति, तस्मान्नात्र तस्याः सम्भवो लक्ष्यते, यतश्चास्य सुन्दरमनोवाक्कायप्रवृत्तिलेशो दृश्यते, ततोऽन्यथाऽनुपपत्त्या भगवदवलोकनायाः सद्भावोऽत्र निश्चीयते, तदिदमलब्धसन्देहविच्छेदकारणं अस्माकं मनो दोलायते किमिदमाश्चर्यमित्याकृते।
यथा च तेन तात्पर्येण पर्यालोचयता महानसनियुक्तकेन पश्चानिश्चितं यदुत-सम्भवतोऽस्य द्रमकस्य द्वे कारणे महानरेन्द्रावलोकनायाः, तेन युक्तियुक्त एवास्य पारमेश्वरो दृष्टिपातः, तत्रयस्मादेष सुपरीक्षितकारिणा स्वकर्मविवरेण द्वारपालेनात्र भवने प्रवेशितः, तेनोचित एवायं विशेषदृष्टेरित्येकं कारणं, तथा यस्यैतद्भवनमालोक्य नरस्य मनःप्रसादो जायते, स महानरेन्द्रस्यात्यन्तवल्लभ इति प्रागेव विनिश्चितमिदं मया, संजातश्चास्य मनःप्रसादो लक्ष्यते, यतो नेत्ररोगपीडाभराक्रान्ते अपि लोचने भवनदिदृक्षया प्रतिक्षणमयमुन्मीलयति, तद्दर्शनेन बीभत्सदर्शनमप्यस्य वदनं सहसा प्रसादसम्पत्तेर्दर्शनीयतामासादयति, धूलिधूसराणि चास्य सर्वाङ्गोपाङ्गानि पुलकोभेदभाञ्जि दृश्यन्ते, न चैतदन्तर्विवर्त्तमानहर्षव्यतिरेकेण संपद्यते, तस्मादिदमस्य नृपभवनपक्षपातलक्षणं परमेश्वरावलोकनाया द्वितीयं कारणमिति तदेतत्सर्वं सद्धर्माचार्या अपि जीवविषयं पर्यालोचयन्तः परिकल्पयन्त्येव, तथाहियो जीवो हेतुभिर्लक्ष्यते, यथा संजातकर्मविवरोऽयं, तथा भगवच्छासनमुपलभ्य यस्य प्रादुर्भवति मनःप्रसादः, स च भगवान् लक्ष्यते प्रतिक्षणं नेत्रोन्मीलनकल्पया जीवादिपदार्थजिज्ञासया, विभाव्यते प्रवचनार्थलवाधिगमे विकसितवदनकल्पेन संवेगदर्शनेन, निश्चीयते च धूलिधूसरिताङ्गोपाङ्गरोमाञ्चाकारेण सदनुष्ठानलेशप्रवृत्तिविलोकनेन, तस्य जीवस्य सम्पन्ना भगवदवलोकनेति निर्णीयते, तस्मादिहापि निश्चयकरणे तदस्त्येव हेतुद्वयं, यदुतसञ्जातकर्मविवरता भगवच्छासनपक्षपातश्चेति। Guनयार्थ :
આચાર્ય ભગવંતની મનોવ્યથા તથા સમાધિ જે વળી, તે ધર્મબોધકર વડે સાકૂતમાનસવાળા છતાં ત્યારપછી ચિંતવન કરાયું, જે આ પ્રમાણે – મારા વડે હાલમાં આ શું આશ્ચર્ય દેખાય છે? જે કારણથી આ સુસ્થિત મહાનરેન્દ્ર જેમના ઉપર વિશેષથી દષ્ટિ નાંખે છે, તે પુરુષ ત્રણે ભુવનનો પણ શીઘ જ પ્રભુ થાય છે. એ પ્રમાણે આ સુપ્રસિદ્ધ છે. વળી, જે આ હમણાં આ રાજાની દૃષ્ટિની ગોચરચારિતાને અનુભવતો દેખાય છે, તે દ્રમક દેવ્ય ઉપહત-દીનતાવાળો, રોગગ્રસ્ત દેહવાળો, અલક્ષ્મીના ભાજનભૂત, મોહથી ઉપહત સ્વરૂપવાળો, અતિબીભત્સદર્શનવાળો, જગતના ઉદ્વેગનો હેતુ છે. તે કારણથી કેવી રીતે સમસ્તદોષરાશિવાળા આનો પરમેશ્વરના દૃષ્ટિપાતની સાથે સંબંધ થયો ? પૂર્વ-અપર વિચારતાં ઘટતી નથી=આ જીવ