________________
૧૫૭
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ
પ્રશમરસમાં યત્ન કરનારા છે તેવા મહાત્માઓને રાજપુત્ર પણ મોટા મોટા રાજ્યની પ્રાપ્તિના જે વિકલ્પો કરે છે તે રાજપુત્ર પણ ભિખારી જેવો જ જણાય છે; કેમ કે તે ભિખારી પણ ભિક્ષાને પ્રાપ્ત કરવા જે વિકલ્પો કરે છે તેમ રાજપુત્ર પણ વિષયોને મેળવવા વિકલ્પો કરે છે. ફક્ત ભગવાનના શાસનની પ્રાપ્તિ ન થયેલી હોવાથી સંસારી જીવોને બાહ્યસમૃદ્ધિથી મોટા જણાતા રાજપુત્રાદિ પુણ્યશાળી જણાય છે. પરમાર્થથી તો ક્લેશનાશમાં યત્ન કરનારા જ યોગ્ય જીવો પુણ્યશાળી છે; કેમ કે ક્લેશના શમનથી સુખનો અનુભવ કરે છે.
अर्थकामसक्तानां चेष्टाः संकल्पमालाश्च
तथाहि-द्विजातिवणिजकाभीरान्त्यजादिभावेषु वर्त्तमानोऽयं जीवोऽदृष्टतत्त्वमार्गो वराकस्तुच्छाऽभिप्रायतया क्वचिद् द्वित्राणामपि क्षुद्रग्रामाणां लाभं चक्रवर्त्तित्वं मन्यते, क्वचित् क्षेत्रखण्डमात्रप्रभुत्वमपि महामण्डलिकत्वमाकलयति क्वचिज्जारकुलटामप्यमरसुन्दरीं कल्पयति, क्वचिद्देशविरूपमप्यात्मानं मकरध्वजरूपं चिन्तयति, क्वचिन्मातङ्गपाटकाकारमप्यात्मपरिजनं शक्रपरिवारमिव पश्यति, क्वचिद् द्रविणस्य त्रिचतुराणां सहस्राणां शतानां विंशतीनां रूपकाणामपि लाभं कोटीश्वरत्वमवगच्छति, क्वचित्पञ्चषाणामपि धान्यद्रोणानामुत्पत्तिं धनदविभवतुल्यां लक्षयति, क्वचित्स्वकुटुम्बभरणमपि महाराज्यमवबुध्यते, क्वचिद्दुष्पूरोदरदरीपूरणमपि महोत्सवाऽऽकारं जानीते, क्वचिद्भिक्षावाप्तिमपि जीवितावाप्तिं निश्चिनोति, क्वचिदन्यं शब्दादिविषयोपभोगनिरतमुद्वीक्ष्य राजादिकं शक्रोऽयं, देवोऽयं, वन्द्योऽयं, पुण्यभागयं, महात्माऽयं पुरुषो, यदि ममाऽप्येवं सम्पद्यन्ते विषयास्ततोऽहमप्येवं विलसामीि चिन्तयन्परिताम्यति। तथाविधाऽऽकूतविडम्बितश्च तदर्थं करोति भूभुजां सेवां, पर्युपास्ते तान् सर्वदा, दर्शयति विनयं, वदत्यनुकूलं, शोकाऽऽक्रान्तोऽपि हसति तेषु हसत्सु सञ्जातजातस्वपुत्रहर्षप्रकर्षोऽपि रोदिति तेषु रुदत्सु, निजशत्रूनपि स्तौति तदभिमतान्, स्वपरमसुहृदोऽपि निन्दति तद्विषो, धावति पुरतो रात्रिन्दिवं, मर्द्दयति खिन्नदेहोऽपि तच्चरणान्, क्षालयत्यशुचिस्थानानि, विधत्ते तद्वचनात्सर्वजघन्यकर्माणि, प्रविशति कृतान्तवदनकुहर इव रणमुखे, समर्पयति करवालादिघातानामात्महृदयं, म्रियते धनकामोऽ पूर्णकाम एव वराकः । तथा प्रारभते कृषीं, खिद्यते सर्वमहोरात्रं, वाहयति हलं, अनुभवत्यटव्यां पशुभावं विमर्द्दयति नानाप्रकारान् प्राणिनः, परितप्यते वृष्ट्यभावेन, बाध्यते बीजनाशेन । तथा विधत्ते वाणिज्यं, भाषतेऽलीकं, मुष्णाति विश्रब्धमुग्धलोकान्, याति देशान्तरेषु, सहते शीतवेदनां, क्षमते तापसन्तापं, तितिक्षते बुभुक्षां, न गणयति पिपासां, अनुभवति त्रासाऽऽयासादीनि दुःखशतानि, प्रविशति महारौद्रसमुद्रे, प्रलीयते यानपात्रभङ्गेन, भवति भक्ष्यं जलचराणाम् । तथा भ्रमति गिरिकन्दरोदरेषु, आस्कन्दत्यसुरविवराणि, निभालयति रसकूपिकां, भक्ष्यते तदारक्षराक्षसैः । तथाऽवलम्बते महासाहसं, याति रात्रौ श्मशानेषु, वहति मृतकलेवराणि, विक्रीणाति महामांसं साधयति