________________
૫૨
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
પાછો આવીશ.' એમ કહીને નગરની બહાર આવ્યો. ત્યારે વિરોધીઓએ મનમાં વિચાર્યું: “સારૂં થયું. અમારા મનનું એક શલ્ય ગયું. હવે સુખેથી રહીશું. જ્યારે સજજન માણસેએ વિચાર્યું : હવે કોણ જાણે શું થશે ? સજજન માણસેની શું ગતિ થશે ? હવે અધમ માણસે એમની નીચતા બતાવશે. આવો ગુણવાન ઉત્તમ પુરૂષ નગરમાંથી ચાલ્યો જતાં સર્વત્ર અંધકાર ફેલાશે.” આ પ્રમાણે લેકે ના મુખે પ્રશંસા કરતા પ્રદ્યુમ્ન, નગરમાંથી નીકળીને નારદજી પાસે આવ્યા.
उपेत्य नारदाभ्यर्णं, नत्वा च क्रमयामलं । प्रद्युम्नोऽवक्कियत्यस्ति, स्वामिन् द्वारवती पुरी॥ तदाह नारदो वत्स, वैताढचगिरिरस्त्ययं । वसंति खेचरा एव, न पुनर्भूचरा इह ॥२८॥ इतोऽस्ति महती भूमिावत्सा पूस्तवाह सः। तामल्लंघयितुं पद्भ्यां, भविष्यावः कथं क्षमौ ॥ नारदषिरवादीतं, तच्चित्ततुष्टिपुष्टये । माकार्षीश्चितया युक्तं, हृदयं सुकुमालधीः ॥३०॥ विमानं रचयिष्यामि, वेगान्मार्गावगाहकं । आवां तत्र समारुढौ, प्राप्स्यावस्तां पुरीं द्रुतं ।३१। प्रद्युम्नोऽभ्यदधत्स्मित्वा, रच्यतां रच्यतां जवात् ।
पश्याम्यहमपि स्वामिन, रचनां रचितां त्वया ।३२॥ ततस्तेन विशेषेण, विधाय रचनां बहु । किंकिणोचित्रसंयुक्तं, विमानं रचितं ततं ।३३। मदनस्तत्समालोक्य, जगाद नारदं मुनि । द्वयोरप्यावयोः प्रौढ-भारमेतत्सहिष्यति ।३४। हसित्वोचे मुनिर्बाल, स्वरूपमस्य वेत्सि न । अर्कतूलसमानोऽयं, किमात्रो भार आवयोः ।३५। एतस्मिन् स्थूलवस्तूनां, यदि भाराः सहस्रशः। प्रक्षिप्यंते तथाप्यस्य, न भंगः सर्वथा भवेत् ।३६। मदनोऽभिदधातिस्म, यद्येवं वर्तते मुने । आरोहाम्यहमेतत्तत्, सोऽवक्त्वं शीघ्रमाश्रय ।३७। इत्युक्ते मुनिना तेन, स यावत्पादमादधौ । त्रटत् त्रटत् प्रकुर्वाणा-स्त्रुटितास्तस्य संधयः।३८॥ चालिनीव विमानं त-त्सछिद्रं समभूत्क्षणात् । हसंस्तदा स आचख्यौ, मुनेरेतद्विमानकं ॥३९॥ क्रममात्रे प्रदत्तेऽपि, यदासोत् त्रुटितं खलु । निर्वाहक कथं नाथ, तदा तद्भविष्यति ।४०। यथेच्छं भ्रमता देशे, देशे त्वया मुनीश्वर, विद्येशी कुतः प्राप्ता, विमानरचनाकरी ॥४१॥ त्वयि विद्या त्वयि ज्ञान, विज्ञानमपि च त्वयि । एतावंतं मुने कालं, प्रतीतिरिति मेऽभवत् ॥ लज्जितो मुनिरप्याख्यत्, किं त्वं हससि भूरिशः। जराजर्जरितांगस्य, कार्यमीहक्षमेव हि ।४३। स्फुटत्तारुण्यलावण्यः, सर्वविद्याविशारद । त्वमेव रचय क्षिप्रं, विमानं वेगगामुकं ॥४४॥ इत्यादेशं मुनेः प्राप्य, प्रद्युम्नेन मनस्विना। विमानरचना चक्रे, निजविद्याबलेन तु ।४५। जातरूपमयं सर्व, रत्नैः षोडशजातिभिः। खचितं लंबमानाभि-महाघंटाभि रन्वितं ।४६। वायुना कंपमानेम, ध्वजेनाभिलिहन्नभः । शोभितं दीपिकावापी-कूपकासारभासुरं ।४७। हंससारसकादंब-मयूररुपशोभितं । नालिकेरकदल्यादि-नानावृक्षः समाकुलं ॥४८॥ चामरैश्चामरेश्वारुरचनारचितैरिव । वादित्राणां विचित्राणां निनादपुरितांवरं ।४९। वातायनैर्वरं क्षुद्र-घंटिकानिःस्वनः पुनः । मुक्ताफललसज्जाल-भूरिशोभाधरं बभौ ॥५०॥