________________
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
प्रातः समेत्य युद्धोा -मवादीन्मदनं नृपः । रे दिग्मूढ कथं गूढ-बाणास्त्रं दधसे मुधा ।१। शिक्षितोऽस्यधुनैव त्वं, तद्विमुंच पुरा शरान् । मयैव वर्धितं बालं. हन्म्यहं प्रथमं कथं ? ॥२॥ प्राणा नृणां क्षणक्षीण-भावं भजति सर्वथा। ध्यात्वेति क्षत्रियो मर्तु-कामोऽपि न त्यजेत्स्मयं ॥ ततः स भूभुजेत्युक्तो, हसित्वा पितरं जगौ । पितः स एव मूढात्मा, स्त्रीवाक्यं विदधाति यः॥ अविचार्यैव तद्वाक्या-त्स्वयमेव प्रवर्धितं । बालकं मूढतायुक्तो, निर्मतुं हंतुमादिशेत् ।५। पूज्यत्वात्प्रथमं वृद्ध-कृत्यं पश्चाच्छिशोभवेत् । अतस्त्वमेव वृद्धत्वात, प्रथमं मुंच मार्गणं ।६। तस्मिन्निति प्रकुर्वाणे, वितर्कणां रणांगणे । मुक्तः शिलीमुखः कोपा-त्कालसंवरभूभुजा ७। प्रद्युम्नस्य रथस्तेन, भंजितस्तत्क्षणादपि । तथापि केलये तेन, मुक्तः सुवेगमार्गणः ।८। निबद्धय नागपाशेन, तेनानीतस्तदंतिके । तथापि न मदोन्मत्तः, किंतु लज्जानमच्छिराः ।। स्वशक्तिदर्शनार्थं सो-ऽजल्पच्छक्तियुतोऽत्र यः । स छोटयतु मत्तातं, पतितं बंधनापदि ।१०। तेनेत्युदीर्यमाणे हि, कुर्वन्नृत्यं घनाश्रयात् । उत्तीर्णो नारदस्तत्र, समाययौ पवित्रहृत् ॥११॥ तत्र तेन समेतेन, कालसंवरपार्थिवः । प्रद्युम्नस्य पुरो बद्धो, दृष्टो हृष्टोऽभवत्तदा ।१२। अहो जातमिदं भव्यं, यदेतयोः परस्परं । विरोधोऽभूदथ द्राग्मे, फलिष्यति मनोरथः ।१३। मत्वेति नारदोऽप्राक्षी-द्विजानन्नपि मायया । युवयोः प्रीतिभाजोः किं, बभूव रणकारणं ॥१४॥ तदोचे मदनः स्वामिन्, मात्रा मम विरुपकं । किंचित्पितुः पुरः प्रोक्तं, मद्वधाय तदागतः ॥१५॥ सहसालोकवार्ताया भाषिताया मृगीदृशा। अविचारात्समायातो, मारणार्थमयं मम ॥१६॥ ततो द्वयोरपि प्रीति-मतोर्निरपराधयोः। पितृसून्वोरपि प्रादु-भूतोऽतिदारुणो रणः ॥१७॥ व्यक्तं मातुरपि प्रोक्तं, सर्व स्वरूपमादितः । पुरस्तस्य मुनेस्तेन, कलंकभीतचेतसा ॥१८॥ आच्छाद्य श्रवणद्वंद्वं, तदैव नारदर्षिणा । चक्षुर्निमीलनं कृत्वा, मस्तकं धुन्वतोदितं ।१९। वत्साश्राव्यं स्त्रीचरित्रं, मा श्रावय ममाधुना। स्त्रीस्वरुपं न जानासि, त्वमद्याप्यसि बालकः ॥ यस्मिन् स्युर्योषितो रक्ताः, स्वाभिलाषप्रपूरणात् ।
तस्य निर्द्रविणस्यापि, दधुः प्राणानपि स्वकान् ।२१। यस्मात्पुनर्विरक्तास्ताः, स्ववाक्याननुयायिनः। सद्रव्यं सुंदराकारं, स्वयमेव निहंति तं ॥२२॥ अद्यापि तव जागत्ति, भाग्ययोगो मनस्विनः । प्रस्ताव ईदृशेऽपि त्वं, जोवन्नेवोज्झितस्तया ॥ नारदर्षिवचः श्रुत्वा, मदनो दुःखगर्भितं । जगाद वचनं नाथ, निराधारोऽस्म्यहं क्षितौ ।२४। न माता मे पिता मे न, स्वजना बांधवा न मे । तैर्विना निष्फलं जन्म, कथ्यते नरजन्मनि ।२५। पितृभ्यां रहितः कुत्रा-हं गच्छाम्याश्रयामि कं । वर्तसे दीर्घदर्शी त्वं, जीवनोपायमादिश ।२६। कालसंवरभूपो मे, पिता तेनैव वर्धितः । माता कनकमाला तु, स्तन्यपानमकारयत् ।२७। तयोस्तु कार्यमीहक्षं, यथा कुर्यान्न वैर्यपि । तदाधारवियुक्तस्य, का गतिमें भविष्यति ॥२८॥