________________
४४
શાબ-પ્રદ્યુમ્ન ચરિત્ર
महांतं बलविस्तारं, निरीक्ष्य मदनो बलो। कियन्मात्रमिति स्मित्वा, दध्यावभीष्टदेवतां ७३। तया मतंगजान्मत्तान्, वाजिनो जविनो घनान् । रथ्यान् स्थान् पदातींश्च, विकुळ कटकं कृतं । बिरुदैबंदिवृन्दानां, संजातरोमकंचुकाः। संग्रामं सुभटाः कर्तु-मुत्साहभाजिनोऽभवन् ।७५। नायका नायकैर्मत्य-गुरवो गुरुभिस्तदा । सामान्यैः सह सामान्याः, मध्यमा मध्यतिभिः ॥ अश्ववारैरश्ववारा, निषादिनो निषादिभिः। रथिका रथिकैः साकं, पदातिकाः पदातिकैः ७७। इति द्वयो रणे रौद्रे, जायमाने परस्परं । पूज्यत्वात्पितसैन्येन, नाशितं मान्मथं बलं ७८॥ दिशोदिशं बलं सर्व, प्रणश्यन्मदनो निजं । वीक्ष्यमाणो महाकोपा-च्चितयामास भीषणः ॥७९॥ संग्रामे कः पिता पुत्रो, जानन्नितीव विद्यया । कृत्वा गजादिभिः सैन्यं, ससैन्याभिमुखं ययौ ॥ प्रद्युम्नस्य बलेनाथ, क्षणाद्वसुमतीपतेः । त्रासितं कटकं कः स्या-न्मदनस्य पुरो जयी ।८१॥ दुर्जयोऽस्ति दुरात्माय-मिति विज्ञाय भूभुजा । मंत्रिणो जगदे ताव-द्रक्षणीयं बलं त्वया ।८२। समानयाम्यहं याव-न्मम रामासमीपतः । प्रज्ञप्तिरोहिणीविद्ये, सद्यः शत्रूपघातिके ।८३। आचख्यौ धीसखो नाथ, गत्वा विद्ये समानय । रक्षिष्यामि भवत्सैन्य-महं तावत्प्रयत्नतः ॥ यथाशक्ति करिष्यामि, संग्राममपि दारुणं । एतद्विषयिणी चिता, न कर्तव्या विभो त्वया ।८५। इत्युक्त्वा निशि गत्वा स, स्त्रीपाश्र्वाद्यावदर्थयेत् । विद्याद्वयीमियं ताव-दरोदोत्स्त्रीचरित्रकैः॥ तेन राज्ञा तदा ज्ञात-मेषास्ति व्यभिचारिणी । कृतानि तानि भावोनि, चरित्राण्यनयैव हि ॥ चिह्नन ज्ञायते धूर्त-मनीषयाऽनयाऽनयात् । पुरा द्वे अपि सद्विद्ये, दत्ते तस्य भविष्यतः ।८८। विमृश्येति जगौ राजा, कथं त्वं सुभ्र रोदिषि । रोदनस्य तु वेला न, विद्ये प्रदेहि सत्वरं ।८९। गतनिःशेषवित्तेव, रुदती गद्गदस्वनं । अभणद्भूपति कांता, कांतारसंस्थितेव सा ।९०। प्रभो पातकिना तेना-नेकप्रकारवंचिता । न वक्तुं तस्य पापस्य, किंवदंत्यपि युज्यते ।९१॥ प्राणनाथ ! मया ज्ञात-मयं बाल्ये विवर्धितः । आवां सौख्यप्रदानेन, वार्धके पालयिष्यति ॥ इति ज्ञात्वा मयान्येद्युः, कोडे संस्थाप्य रागतः । शैशवे शिक्षिता तस्य, विद्याद्वयी मया विभो॥ न मुग्धचित्तया नाथ, पापिन्या विदितं मया। ईदृशो यौवनं प्राप्य, कृतघ्नोऽयं भविष्यति ।९४॥ हा हाऽहं वंचितानेन, पापिना तनुतापिना । तस्य दुश्चरितं नाथ, किं वदामि पुरस्तव ।९५। इत्युक्त्वा रुदिता याव-तावद ज्ञातं महीभुजा ।
विद्ये दत्वा करोत्येषा, स्त्रीचरित्राणी निश्चयात् ।९६। स्त्रोकृतानि चरित्राणि, न ज्ञायते बुधैरपि । नाशयित्वा च मे विद्ये, पुत्रं च विलपत्यसौ ।९७। रक्ष्यं कथं मया हाहा, महत्त्वं जीवितं निजं । धुन्वन्निति शिरो राजा, विषादेन विनिर्गतः ।९८॥ ममैव पालकः पुत्रो, मयैव परिवर्धितः । मत्त एवाप्त उच्चत्वं, सोऽपि मां मारयिष्यति ।९९। रणे यदि न गच्छामि, शोभापि च न तादृशी । एवं दोलायमानेन, तेनायातं बले निजे ।६००।