________________
सग
४१
संचित्येति गता गेहं, प्रद्युम्नस्य छलान्विषः । गत्वा च चाटुभिर्वाक्य-जगुस्ते खेचरांगजाः ॥ क्रीडायामात्मनां साकं, कृतायां बहवो दिनाः । जातास्तेन त्वमागच्छे-र्वयं तर्हि रमामहे ॥ बांधव त्वां विना क्वापि, पुरापि न गता वयं । इदानीमपि नास्माक-मुत्सहते मनो मनाक् ॥ भ्रातस्ततस्त्वमागच्छ, गच्छामः क्रीडितुं यथा । इत्युक्तः सत्यमेवायं, जानन विनिर्गतो गृहात् ॥ सर्वेऽपि समुदायेन, मिलित्वा स्वांतकतवाः । कानने गहने गत्वा, महतीं वापिकां गताः ।४०। तत्र प्रक्षिप्य वालंकी-कर्षणार्थं समुद्यतः । एक एकः पतित्वाशु, कषेत्फलमनाकुलः ॥४१॥ केल्या वारेण वारेण, विशत्सु तेषु दंभीशु । सरलस्य समायातो, मदनस्यापि वारकः ।४२। वारके स निजे याव-तत्र निष्कपटः पतेत् । पुण्येन विद्यया तावत्, कथितं तस्य कर्णयोः ।४३। माकार्षीः पतनं वाप्या-मस्ति दंभस्तवोपरि। मारयिष्यंत्यमी पापा-स्त्वामपराधवजितं ।४४। इति श्रुत्वा द्वितीयं च, रूपं विधाय विद्यया । संप्रेषितं स्वयं तूच्चैः, सूक्ष्मीभूय स्थितो बहिः ॥ रूपभेदापरिज्ञानात, सर्वेऽपि मंदबुद्धयः । प्रद्युम्नं पतितं दृष्ट्वा , युगपत्पतिता मुदा ।४६। झंपापातं प्रकुर्वाणा, मार्यतां मार्यतामयं । ब्रु वाणा इति वक्रेस्तेऽगृहणंस्तं भुजकोटरे ।४७। गृहीत्वा मार्यते याव-त्तावत्स प्रजजल्प तान् । घात्यते पितुरादेशा-धुष्माभिः स्वेच्छयाऽथवा ॥ ते प्रोचुः पितृनिर्देशा-देव त्वं मार्यसेऽधुना । तातादेशं विना केन, निहंतुं शक्यते भवान् ।४९। तदा तेन हृदि ज्ञातं, मातुरेतद्विचेष्टितं । कद्रूषणं तयवोक्तं, पितुः पुरो भविष्यति ५०। मायया कल्पनां कृत्वा-लीकमेव वदेद्वशा । रागेण सरलो मर्यो, जानाति सत्यमेव तत् ॥५१॥ ततस्तयैव पापिन्या, वैरूप्यं परिकल्प्य च । कथितं दर्शितं च स्त्री-कैतवेन भविष्यति ॥५२॥ तस्या एव प्रकोपेन, तातेन निखिलानपि । आहूय नंदनान् प्रोक्तं, मन्मारणं भविष्यति ।५३। अत एवाभवन्नेते, मरणार्थं ममोद्यताः । अन्यथैतैर्वराकैः किं, हंतुं शक्येऽहमंजसा ।५४। अथ चेन्मारयाम्येतान्, दंभात्कल्पितमारणान् । सर्वेषामपि शिक्षा स्या-न्मयि पापधिया तदा ॥ विमृश्येति तटस्थेन, रूपेणानीय द्राक्शिलां । पिधानमिव वाप्यास्त-न्मानं स विद्ययाऽकरोत् ॥ तयैव तत्र ते वापी, पिधाय चावलंबिताः। ऊर्ध्वं पादा अधो वक्त्रा-स्तेन वल्गुलिका इव ॥ एक विमुच्य तन्मध्यात्, कथितं तस्य तेन च । वजित्वा त्वं पितुः पार्वे, मत्कृतं कथय द्रुतं ।५८॥ श्वासपूरितवक्त्रेण, तेन व्याकुलचक्षुषा । अतिदुःखेन तातस्य, तत्स्वरूपं निवेदितं ।५९। तदाकर्ण्य महीनाथः, कोपाटोपेन रक्तहग् । निर्ययौ खङ्गमादाय, कतुं पुत्रसहायितां ।६०। तदा निवारितोऽमात्यै- थौत्सुक्यं विधेहि मा। सहसा विहितं कृत्यं, न सौख्याय भवेन्नृणां ॥ बद्धा वापीजले येन, वीराः पंचशती सुताः। यस्य षोडश लाभाश्च, स्फुरंतः संति सन्निधौ । माज्ञासीस्तं नरं शक्ति-युक्तं सामान्यवृत्तिकं । यथातथा विजेतुं स, शक्ष्यते न त्वया विभो॥ कोपेऽप्यमात्यवाक्येन, प्रद्युम्नं दुर्जयं जवात् । ज्ञात्वा द्वेधापि भूपालो, रणभेरीमवादयत् ।६४।