________________
सा-१६
२६3
બળદેવ દુઃખી દુઃખી કરી નાખે. આ પ્રમાણે બલાત્કારે રામ-કૃષ્ણની મૂર્તિની પૂજા કરાવી, બલદેવ પિતાના સ્વસ્થાને (પાંચમા દેવલોકમાં) ગયા.
પુન્યપ્રભાવે અતિસુખદાયી જય-વિજયની પ્રાપ્તિ થાય છે, અને પાપકર્મથી અતિદુઃખદાયી એવો વિનાશ સર્જાય છે. તે માટે બળરામ અને કૃષ્ણનું આ દૃષ્ટાંત પંડિતપુરૂષોને જાણવાસમજવા યોગ્ય છે. इति पंडितचकचक्रवतिपंडितश्रीराजसागरगणिशिष्यपंडितश्री रविसागरगणिविरचिते श्रीसांबप्रद्युम्नचारित्रे प्रद्युम्नसांबदीक्षाग्रहणद्वारिकादाहकृष्णमरणबलदेवदीक्षास्वर्गग
मनवर्णनोनाम पंचदशः सर्गः समाप्तः ॥श्रीरस्तु॥ આ પ્રમાણે પંડિતમાં ચકવતી સમા શ્રી રાજસાગર ગણીના શિષ્ય પંડિત શ્રી રવિસાગરગણુએ રચેલા શ્રી શાંબપ્રદ્યુમ્નચરિત્રમાં શાંબપ્રદ્યુમ્નનું દીક્ષા ગ્રહણ, દ્વારિકાનો દાહ, કૃષ્ણનું મરણ, બળદેવની દીક્ષા તેમજ સ્વર્ગગમન આદિનું વર્ણન કરતાં ૩૬૨ શ્લોક પ્રમાણ પંદરમો સર્ગ સમાપ્ત થયો.
॥ अथ षोडशः सर्गः प्रारभ्यते ॥
अथ श्रीनेमिहस्तेन, गृहीतशुचिसंयमः ।प्रद्युम्नस्तु निरध्यष्ट, द्वादशांगी जिनोदितां ॥१॥ अधीत्येत गुरोः पार्वे, पालयन संयमं वरं । ध्यानमुग्रं तपश्चोग्रं, चकार मुनिपुंगवः ॥२॥ इतश्च द्वारिकादाहं, मरणं नरकद्विषः । प्रद्युम्नमुनिराका -तपद्घोरतरं तपः ॥३॥ पारणं षष्ठषष्ठाभ्या-मष्टमैरष्टमैर्व्यधात् । दशमैदशैभूयः, पक्षमासोपवासकैः ॥४॥ अर्हत्सिद्ध प्रवचना-नूचानस्थविरास्तथा । उपाध्यायानगाराश्च, विनयो ज्ञानदर्शने ॥५॥ चारित्रं ब्रह्मचर्य च, क्रियातपस्विगौतमाः । जिनाश्चारित्रसद्ज्ञान-श्रुततीर्थानि सिद्धये ॥ विंशतिस्थानकान्येवं, क्रियतेऽहत्पदैषिभिः । प्रद्युम्नमुनिरेकैकं, तेऽष्टभक्त न निर्ममे ॥७॥ दुःकरतमं ततोऽकार्षीत्, सिंहनिष्क्रीडितं लघु । चतुर्थतपसा पूर्व-मिष्टं करोति पारणं ॥ षष्टं तपश्चतुर्थं चा-ष्टमषष्टं प्रकृष्टकं । उग्रं नानाविधं चैत्य, षष्टमष्टममुत्तमं ॥९॥ चतुर्दशं द्वादशं च, षोडशं च चतुर्दशं । अष्टादशं षोडशं च, जनयन्मुनिनायकः ॥१०॥ विंशतितमाष्टादशे, द्राग्विंशतितमं पुनः । षोडशं चतुर्दशं च, षोडशं व्यदधात्तपः ॥११॥ द्वादशं चतुर्दशं च, मनोज्ञं दशमं तपः । द्वादशमष्टमं भूयो, दशमं षष्ठमष्टमं ॥१२॥ चतुर्थ षष्टमित्यादि तपः कृत्वा मुनीश्वरः। मनःकामितमाहारं, पारयेत्पारणादिने ।१३। षड्भिर्मासैरहोरात्रैः, सप्ताधिजिनोदिता । सिंहनिष्क्रीडितस्याद्या, परिपाटी लघोरियं ।। परिपाटयां द्वितीयस्या-मेतावान् स्याद्विशेषकः । चतुर्थादितपःप्रांते, पारयेद्विकृति विना ॥