________________
२०२
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
प्रवालसुमनःपत्र-फलैः क्रीडितुमुत्सुकैः । पादपा अपि मन्येऽहं, जाताः पल्लविता भृशं ।११॥ तत्र रंतुमना विष्णु-रपि काननवम॑नि । निजगाम तदानेका-नेकपाववशावृतः ।।१२॥ विवाहो मानयितव्यो, युष्माभिर्नेमिनःप्रभोः । सत्यभामादिकांताना, शिक्षां दत्त्वेति सोऽगमत् । एकस्तु मर्कटः सोऽपि, संदष्टो वृश्चिकेन च । चेष्टितं तस्य कि ब्र मो जनानां हास्यकारकं॥ तथैका तु वशान्यच्च, धवेनाज्ञा समप्पिता। देवरस्य कथं न्यूना, भवेहिनोदनिमितौ ॥१५॥ इति ताभिःप्रभूताभिः, संभूय नेमिनोंतिके । गत्वा हास्यविनोदानां, वचनाम्यचिरेतरां ॥१६॥ हे देवर त्वमुत्तिष्ठो-त्तिष्ठ क्रीडा विधीयते । वसंते सा कृता नो चे-दन्यत्र करणेन किं ॥ पूर्वमेव तव भ्राता, प्रयातोऽस्ति रिरंसया। कामिनीभिरदंभाभि-र्वेष्टितोऽभीष्टपाथिर्वैः ॥ इति प्रोक्त ऽब्रवीन्नेमि-र्मम तत्र न योग्यता । बलेनोत्पाटय ताभिः स, आनीतः कानने तदा। तत्रानीय समं तेन. क्रीडास्ताभिरनेकधा । चक्रिरे कुंकुमैः पुष्प- घृष्टोद्यच्चंदनोदकैः ॥२०॥ अपरा अपि कामिन्यः, क्रीडां कृत्वा मुरारिणा । समीपे नेमिनाथस्य, समेताः केलिकाम्यया ॥ क्रीडारसोन्मुखीष्टवा, स्वकीया हरिणीदृशः । शिक्षां दत्त्वा मुकुंदोऽपि, प्रययौ काननांतरे॥ कुसुमादानदंभेन, पादपेभ्योऽपि योषितः । कुचाभ्यां मर्दयामासु- रागमपि नेमिनं ॥ २३ ॥ कि हिया रहितहस्यैि-हस्यिो भवसि देवर । इति ताभिः स्मितैर्हाव-भावाद्यैर्हसितो जिनः ।। जलार्द्रवसनं ताव-न्मुक्त्वा जांबवतीपुरः । निर्गत्य दीघिकानीरा-ज्जगाद जिननायक. ॥ ममेदमंशुक देवि ! पानीयपरिवजितं । कुरुष्व त्वं गदित्वेति, नेमिना तत्समर्पितं ॥ २६ ।। भाले भकुटिमारोप्य, जगौ जांबवती तदा। अरे मूढेदृशं वस्त्रं कथं त्वं प्रददासि मे ॥२७॥ ईदशांशुकदानेचा, यदि स्यात्तव चेतति । कस्याश्चिद्योषितस्तहि, त्वं पाणिग्रहणं कुरु ॥२८॥ मिलंती न भवेद्यहि, यदा त्वेकाकिनस्तव । तहि याचस्व मे भर्तुः, समीपे तां मनोरमां ॥२९॥ अन्येषामपि निर्वाहं, करोति यदि बांधवः । तदा तव विशेषेण, निर्वाहं स करिष्यति ॥३०॥ मम यो वर्त्तते नाथ-स्त्रैलोक्योद्धरणक्षमः। प्रौढं सुदर्शन चक्रं, तर्जन्या भ्रामयत्यलं ॥३१॥ मृणालमिव शारियं, धनुर्वा लयति क्षणात् । शय्यामारुह्य नागस्य, पांचजन्यं प्रपूरयेत् ।३२॥ स ममापीशं कृत्यं, कदापि न समर्पयेत् । तस्या वचनतोऽमर्षो, नेमिनः समजायत ॥३३॥ तदा रुक्मिरवोचत्तां, मावादीरीदृशं वचः। नेमेर्बलस्वरूपं त्वं, न विजानासि मूढधीः ॥३३॥ इत् दित्वा तया तस्या, वसनं तत्समपितं । तयापि तत्प्रदानेना-दायांबुवजितं कृतं ॥३४॥ अनया गवतो वाक्यं, मदीयं नोररीकृतं । दर्शयामि बलं तहि, क्षोभनाजनक भुवि ॥३५॥ बलं दर्शयितुं कृष्णा-युधशालां गतो जिनः । प्रविष्टो द्वारमेवाथा-ददे चक्रं च कार्मुकं ॥३६॥ आदाय नागशय्यायां, सुष्वाप वालयन् धनुः । भ्रामयन् मर्दयश्चक्र, पांचजन्यमपूरयत् ॥३७॥ नेमिना पूर्यमाणे हि, शंखे नेशुस्तुरंगमाः। त्रेसुर्गजाः समस्तं च, बभूव वधिरं जगत् ॥३८॥ तच्छब्दक्षुभितो विष्णु-रप्यागत्य चमत्कृतः । जगौ नेमिमहो बंधो, क्षोभनं किं करोष्यदः ॥