________________
सर्ग-१३
૧૯૭
गोविंदाखिलसैन्यस्य, सज्जीभवनवार्तया। पांचजन्यस्य शब्देन, चुकोप मगधाधिपः ॥४६॥ प्रतिविष्णुर्भवेद्वध्यो, विष्णुनैवेति नेमिना । जरासंधं नृपं मुक्त्वा, जिग्ये लक्षं महीभृतां ।४७। संग्रामकृतये सज्जी-भूते सैन्येऽखिलेऽपि च । श्रीनेमिळरमयुद्धकृत्यात्करुणया यदा ॥४८॥ तदा क्षिप्त्वा जरासंध-प्रहारोद भूतवेदनां । मुशली मुशलेनैवा-चूर्णयद्वहुशो बलं ॥४९॥ अथ राजा जरासंधः, क्रोधांधो माधवं प्रति । अचालयद्रथं कुर्वन, दिवापि रजनी शरैः ।५०। कृष्णोऽप्यकृष्णया कीा, जनयन्नुज्ज्वलां महीं । जरासंधोपरि बाण-वर्षणं कृतवान् भृशं ॥ उभयो रथचक्राभ्यां, स्पृष्टा भूः पिष्टसन्निभा । बभूव भुवनक्षोभो, लोभोऽन्येषां जयश्रियः ।। अस्त्रैर्लोहमयैर्लोह-मयानि निशितान्यपि । दिव्यदिव्यानि तौ वीरौ, चिच्छेदतुः परस्परं ॥ दुर्दशायाः प्रसंगेन, क्षीणास्त्रो मगधाधिपः । स्मृति चकार चक्रस्या-गतं तदपि तत्करे ॥ जरासंधस्तदावादो-दरे गोपालबालक ! । अद्यापि मम मन्यस्व निदेशं कुशलागमं । ५५॥ स्वकीया ष्यपूर्णेऽपि, कथं च म्रियसे मुधा । चेज्जीविष्यसि तद्राज्यं, गोपालत्वं च लप्स्यसे ।। हितबुद्धया मयोक्तऽपि, यद्याज्ञां न करिष्यसि । वर्षद्वह्निकणानेत-च्चकं त्वां ज्वालयिष्यति ॥ अभिमानेन संयुक्त, वचनं मगधेशितुः । निशम्य माधवोऽवोच-न्माकार्षीपंढ ! रे स्मयं ॥ दुष्टं व्याघ्रमहं हत्वा, गवां च प्रविनाशकं । सुखेन पालयिष्यामि, समस्तामपि गामहं ।।५९॥ यथा तव शरीरस्य, सुकृतस्य बलस्य च । सांप्रतं क्षीणता जाता, चक्रस्यापि तथैव सा ।६०। एवं न चेत्तदा चक्र-मोचने किं विचारणां । करोषि त्वं च मुंचाशु, रणे हि वार्तया सृतं । अष्टापद इवोत्कर्षा-त्कृष्णवाक्याब्दगर्जनं । मुमोचासहमानोऽपि, चक्रं मगधभूधवः ॥६२॥ दशायां कमनीयायां, विषमप्यमृतं भवेत् । शत्रवोऽपि परां मैत्री, भजते शुभकर्मणा ॥६३॥ ततस्तस्यापि तच्चक्र, ततो गगनमंडले । भ्रांत्वा प्रदक्षिणावर्त्त, समागतं करे हरेः ॥६४॥ सोऽपि प्रादुर्भवत्पुण्यो, जानन् स्वमर्धचक्रिणं । तदेव भ्रामयित्वा च, मुमोच मगधेश्वरे ॥६५॥ पुंसामपदशायोगे, विश्वस्तमपि यद्भवेत् । पराभवेत्तदप्युच्चै-ालितात्मीयदेहवत् ॥६६॥ इति तेनैव तस्यापि, छिन्नमस्तकमस्तक । स मृत्वा च महापापै-श्चतुर्थं नरकं ययौ ॥६७॥ नवमो वासुदेवोऽसौ, बिभ्रदभ्रगुणो हरिः । ब्र वाणा इति गीर्वाणाः, पुष्पवृष्टि प्रचक्रिरे ।६८। यो मृतोऽथ स एवात्र, मृतः स्वकीयकर्मणा । म्रियते न समं तेन, पुत्रमित्रसहोदराः ॥६९॥ जरासंधनृपस्येति, सहदेवादयः सुताः। समेत्य स्वार्थवांछाय, प्रणेमुः पुरुषोत्तमं ॥७०॥ मुकुंदोऽपि पितुः शोक-दुःखविस्मृतिहेतवे । सन्मान्य प्रददौ तेषां, राज्यं राजगृहस्य च ७१। वासुदेवोऽथ वामेय-जिनस्य मूर्तिमद्भुतां। प्रणम्य यदुभिः सर्वै-स्ततवास्थापयन्मुदा ।७२। सेवायै तत्पुरो मूर्ति, स्थापयित्वा निजां हरिः । तत्र तन्नामतश्चक्रे, पुरं शंखेश्वराभिधं ।७३। श्रीशंखेश्वरपार्श्वस्या-चित्वा तां प्रतिमां शुभां। स्मरंतस्तद गुणांश्चित्ते, सर्वेऽपि यादवोऽस्तुवन्।