________________
सर्ग - १३
૧૯૩
જોઈને રાષાતુર બનેલા કૃષ્ણે, જરાસ'ધના ૬૯ પુત્રોને મારી નાખ્યા. હણાઈ ને જમીન ઉપર પડેલા પેાતાના ૬૯ પુત્રોના શખાને સૂર્યના પ્રકાશમાં જેમ ખજુએ લાગે તેમ જરાસ’ધનું તેજ ઝાંખુ થઇ ગયું.
પાતાના રાજાઓની આજ્ઞાથી સૈનિકે યુદ્ધથી વિરામ પામી, પેાત પેાતાની છાવણીમાં ગયા. કેમ કે નીતિશાસ્ત્ર પ્રમાણે રાત્રિમાં યુદ્ધ થાય નહી.
J
अजेयानायुधेः शत्रून्, विज्ञाय मगधेश्वरः । दुःकर्मारिजये रात्रौ दध्यौ निद्रोज्झितर्षिवत् ॥ उत्पन्नो ध्यायतस्तस्यो - पायो मुंचाम्यहं जरां । बलस्य सकलस्यापि काष्ठस्येव विधायिनीं ॥ रजन्यां चिन्तयित्वेति, मगधस्वामिना पुरा । आराधिता जरादेवी, मुक्ता सैन्ये वृषाकपेः ॥९८ श्रीमन्नेमिजिनं मुक्त्वा, बलभद्रं च माधवं । सान्येषामपि सर्वेषां देहे शल्यमिवाविशत् । ९९। जरां विनापि वृद्धत्वं मृर्ति विनापि वा मृतिः । रागं विनापि रोगित्वं तेषामंगेऽभवत्तया ॥ वस्त्रे रहिताः केचित् स्रस्तरे बालका इव । धूल्याच्छादितदेहाश्च, केचिद् भिक्षाचरा इव ॥ वमंति रुधिरं केचि-ल्लालां केचित्कफं पुनः । पृथिव्यां पतिता एव, मूत्रयंति च केचन |२| प्रातर्निरीक्ष्य सैन्यानां स्वरूपं च विरूपकं । कृष्णो ग्लानमुखः प्राह, नेमिनं जगदीश्वरं |३| भ्रातरत्र बलेऽभूवन्, ये सहस्रनियोधिनः । लक्षनियोधिनो ये च तेषामपीदृशी गतिः ॥ ४॥ पीडया विधुरो रामो - sपरेषां सैन्यवत्तनां । उज्ज्वले नयने श्वासो, मनाक् चेष्टेति जीविते ॥ वर्त्तते प्रतिपक्षोऽपि दुःसाध्योऽस्माभिरंजसा । ज्ञात्वेत्यनंतशक्तिस्त्वं, रक्ष सैन्यं निजं रिपोः । एकाक्यपि यथा युद्ध, विधाय वैरिणा समं । वृणोमि विजयं शीघ्र ं यदेष दंभभाक् रिपुः ॥ नारायणवचः श्रुत्वा - वधिज्ञानानुभावतः । विचेष्टितं जरादेव्या, विज्ञायाऽवादि नेमिना |८| जरासंधेन मुक्तास्ति, तावके कटके जरा । तयेद सकलं सैन्यं, विधुरं जातमस्ति हि ॥९॥ जयामि शत्रु मित्युक्तं यत्त्वया तत्तु सूनृतं । जीवंतोऽपि मरिष्यंति, परमेते जरावशात् ॥ ततः प्रथममेतेषां परिचर्या द्रुतं कुरु । जगाद माधवो बंधो !, सा कथं प्रवीधियते ? | ११ | नेमिः प्रोवाच पाताले, धरणेंद्रजिनालये । आस्ते भविष्यतः पार्श्व - नाथस्य प्रतिमा शुभा ॥ उपवासैस्त्रिभिः कृत्वा, तमाराध्य त्रिभिर्दिनः । तां मूत्तिं महिमान्वीतां, याचस्व सुखहेतवे ॥ तां ते दास्यति नागेंद्रः सम्यगाराधितस्त्वया । देवा आराधिता एव भवंतीह सुखावहाः ॥ तस्या: स्नपननीरेण, कासश्वासजरादयः । नेत्रोदरांघ्रिरोगाश्च, प्रयांति क्षणमात्रतः ॥ १५ ॥ नमीषामपि क्षिप्रं दूरे जरा प्रयासति । सुष्टंश्च भविष्यति, सर्वेऽपि तव सैनिकाः । १६ । तदा जनार्दनोऽजल्पत् त्रीन् वासरान सहोदर ! । रक्षिष्यति चमूमेनां, को जरापरिपीडितां ॥
"
૨૫