________________
૧૮૪
શાંબ-પ્રદ્યુમ્ન ચારિત્ર
तर्याणां महतां कोटीर्यादवा अप्यवादयन् । बाणैर्बाणा इव ध्वानस्तन्नादाः संधिता द्रुतं ॥ त्रयाणामपि शंखानां, वादित्राणां च निःस्वनैः । अजायत जरासंध-सेनायां क्षोभता भृशं ॥ महानेमिरनाधृष्णि-र्धनंजयश्च दुर्जयः । त्रयोऽपि ववृषुर्बाणान्, हुताशना इवोल्मकान् ॥ महानेमेरतो व्यूह-संधिस्थिता महीभृतः । प्रक्षोभिता जरासंध-भूपसैन्याधिनायकैः ।। ६७।। तदा नामांकित चिह्न-मिव कर्तुत्रयोऽपि ते । विभेदं चक्रिरे चक्र-व्यूहस्य स्थानकत्रये ॥ तत्र मार्गे कृते तेऽपि, चक्रव्यू हेऽविशन् जवात् । विषमे स्थानके मार्गे, संजाते प्रविशेन्न कः ॥ दुर्योधननृपो रुक्मो, रोधिरोश इति त्रयः । स्वसैन्यान् स्थापयंतस्ते, संग्रामाय समुत्थिताः ॥ दुर्योधनोऽथ मात्सर्या-निरुरोध धनंजयं । रोधिरोशस्त्वनाधृष्णिं, महानेमि च रुक्मिराट् ॥ तेषां षण्णामपि द्वंद्व-युद्ध बभूव भैरवं । रथिकानां परेषां च, भटानामाभिमानिनां ॥७२॥ बिभ्राणमपि वीरेषु, मानित्वं रुक्मिणं हठात् । वियुक्त स्यंदनास्राभ्यां, महानेमिरचीकरत् ॥ वध्यस्थानं समेतस्य, रक्षामाश्रित्य रुक्मिणः । शत्रुतपनाद्याः सप्त, राजानो योध्धुमुत्थिताः ॥ तैः सर्वै युगपन्मुक्ता, या या मार्गणधोरणो । उच्चिच्छेद महानेमि-स्तां तां कोदंडसंयुतां ॥ क्रियमाणे चिरं युद्धे, न वैरी क्षयमाप्तवान् । तावता मुमुचे शक्ति-नूपेण व्यक्तशक्तिभाक् ॥ आगच्छंती ज्वलज्ज्वालां, शक्तिमालोक्य यादवाः। चित्ते चुक्षुभिरे वज्रा-गमेन क्षोभते न कः॥ तस्याश्च किंकरीभूताः, शक्तिबाणाः सहस्रशः । सहसा युगपत्पेतु-हुंताशनकणा इव ॥७८॥ व्यचष्टाथारिष्टनेमि, मातलियुद्धकोविदः । देहि प्रभो महानेमे-वज्र वैरिपराजयि ७९। शक्तेः शक्तिविभेद्यास्ति, वज्र णैव महीयसा । न किमप्येतया साक-मन्यच्छस्त्र जयप्रदं ।। तदा नेमिर्जगौ बाणे, संक्रामय त्वमेव तत् । तेनापि नेमिनिर्देशा-द्वज्र संकामितं क्षणात् ॥ शक्ति तेनैव बाणेन, पातयित्वा महीतले । सकेतुं रथमच्छेत्सो-च्छत्राणि च नृपस्य सः ।८२॥ षण्णामवनिपालाना-मन्येषां सार्थवतिनां । अखंडानपि कोदंडा-नसौ चिच्छेद लीलया ॥ आरोप्य भ्रकुटि भाले, तदा धन्वनि पिजिनीं । संग्रामायागतो रुक्मी, समारुह्य रथांतरं ॥ शत्रुजयादयोऽन्येऽपि, भूपा अष्टौ समागताः । रुक्मिणा तैश्च संग्रामो, द्वेधापि नवतां ययौ ॥ जग्राह कार्मुकं यद्य-द्रुक्मिराट् प्रत्ययावहं । समुद्रविजयक्ष्माप-तनयस्तत्तदच्छिदत् ॥८६॥ च्छिदतस्तस्य संजाता, छेदपंक्तौ च धन्वाना । संख्यया विंशती रुक्मी, जातः क्षीणपराक्रमः॥ कौबेरीनामधेयं च, शस्त्र मुमोच रुक्मिराट् । आग्नेयेन शरेणान्य-श्वकार भस्मसाद बली॥ वर्षतं बाणलक्षाणि, रुक्मि वैरोचनाभिधं । बाणं मुमोच शैवेय-प्रजिघांसाकृते द्रुतं ।८९॥ महेंद्राख्येण बाणेन, महानेमिर्बलाधिकः । आनल्पामति तच्छक्ति, क्षिप्त्वा जघान रुक्मिणं ॥ निपीडितं प्रहारेण, क्वणंतं पतितं भुवि । रुक्मिभूपं समादाय, वेणुदास्पदं गतः ॥९१॥ महानेमेर्महीपालाः, क्षोभनां प्रापुरुच्चकैः । विजयेऽपि महासैन्या-च्छंकां चित्ते हि जायते ॥१२॥