________________
सगे-१३
१७
इतो भूपं जरासंध, धोसखैरपरैः सह । मंत्री विज्ञपयामास, हंसकः परिपक्वधीः ।।९२॥ कसेन जनितं कार्य-मविचार्य प्रभो यदि । द्रतमेव फलं तहि, प्रातं जीवितनाशनात् ॥१३॥ ततस्त्वमप्यनालोच्य, माकार्षीः कृत्यमंजसा । माज्ञासींश्च चमूत्कर्षा-सामान्यममुमच्युतं ॥ सामाव्यमपि दक्षेण, ज्ञात्वा शत्रु बलाधिकं । संग्रामः क्रियते यहि, तव द्रियते जयः ।९५। एतौ तु देवकोसूनु-रामौ प्रादुर्भवच्छुभौ । स्तः समस्तप्रकारेण, सुकृतादधुनाधिकौ ॥१६॥ सामर्थ्य वजुदेवस्य, रोहिष्याश्च स्वयंवरे । त्वयका ददृशे नाथा-न्यराजम्लानिताप्रदं ॥९७॥ वर्तेते तत्सुतावेतौ, पुरुषोत्तमसान्वतौ । दत्ता द्वारवती वस्तुं. ययोवै श्रमणेन च ॥९८॥ तस्य कृष्णस्य पुत्रौ द्वौ, प्रद्युम्नशांबकाभिधौ । विद्यापराक्रमैःस्तोतुं, मुकुंदादधिकाविव ।९९। योद्धारः पांडवाः पंच, गणयंति न कोटिशः। बलिनोऽपि महाशत्रून्, युद्ध पंचानना इव ॥ एकोऽप्यनेकतां बिभ्र-न्नेमिनाथोऽस्ति तत्र यः । एकच्छत्रां महीं कर्तुं, स समर्थः स्वलीलया। तव सन्ये धुरीणौ यौ, शिशुपालाख्यरुक्मिणौ । रुक्मिण्या अपहारे त-द्वलं ज्ञातं समैरपि ॥२॥ कुरुदेशसमुद्भूतो, दुर्योधनो महीपतिः । गांधारः शकुनिश्मापो, गण्येते न भटेषु तौ ॥३॥ अंगदेशाधिपः कर्णः, प्राज्ये तस्य बले स तु । घरट्टस्येव गोधूम-धोरणीव भविष्यति ॥४॥ तत्रास्ति नेमिनाथो यः, स त्वजेयः सुरैरपि । कृष्णोऽपि बलभद्रोऽपि, वर्तेते दुर्धराविमौ ॥५॥ अत्र संस्तूयते नाथ, तवैव केवलं बलं । अपरेषां न विश्वास-स्त्वया ज्ञेयो महत्तमः ॥६॥ चतुःषष्टिसुपर्वेद्रा, नमंति यत्क्रमांबुजं । नेमिनाथः स केनापि, जेयो न जायते मनाक् ॥७॥ दैवं पराङ मुखं ताव-कोनमस्ति विभोऽधुना । नो चेत्तदा कथं कालो, देव्यापि निहतश्छलात् ॥ त्वां प्रमाणमकुर्वाणा, बलिष्टा अपि यादवाः । मथुरायाः प्रणश्यागु-रिकायां समेऽपि ते॥ यस्माद्मिभ्यंति सर्वेऽपि धातितो येन सोऽप्यहिः । तवाभिमुखमायातः, स एव केशवो बली। जातेष्वेतेषु चिन्हेषु, रणारंभो न युज्यते । व्यावृत्ते त्वयि तत्कृत्यात्, स्वयं सोऽपि गमिष्यति ॥ इति श्रुत्वा वचस्तस्य, धोसखस्य भयंकरं । भृकुटीभैरवो भूत्वा, जरासंधो जगाद तं ॥१२॥ रे दष्टाऽस्ति त्वया जग्धा, लंचा चापल्यताकरी । तत एव त्वमस्माकं, भेदखेदकरोऽऽभवः ॥ वराका हरिणाः प्राज्या, मिलंतु पुरतो हरेः । तेषां स्यात्समुदायेन, तेजः क्षणिकमेव च ॥ पश्यतस्तव गोपाना-मेतेषां सकलं बलं । भस्मसाद्यदि कुर्वेऽहं, तोव मे पराक्रमः ॥१५॥ तदा तं कुलमंत्र्यूचे, डिभको डिभकोपमः । स्वामिन्नत्र समागत्य, त्यज्यतेऽथ रण : कथं ? ।१६। जये श्रीश्च मृतौ स्वर्गो, द्वेधापि रणकर्मणि । वीराणां शुभमेव स्या-तत्र भीश्चित्यते कथं ? ॥ घनोदधिमिवाभेद्यं, चक्रव्यूहं विधाय च । जेष्यामः सकलं सैन्यं, गोपालपक्षकारीणां ॥१८॥ डिभस्य वचनं श्रुत्वा, जरासंधस्तुतोष च । प्रायसो हि जराजीर्णो, डिभवाक्येन तुष्यति ॥