________________
શાંખ-પ્રદ્યુમ્ન ચરિત્ર
આવું ?' ત્યારે સત્યભામાએ કહ્યું:- ‘ હું જ્યારે શાંબના હાથ પકડીને નગરીમાં લાવું ત્યારે તારે આવવાનું, અન્યથા નહીં.' સત્યભામાનું વચન પ્રમાણ કરીને પ્રદ્યુમ્ન શ્મશાન ભૂમિમાં ગયા. ત્યાં શાંખની સાથે રહ્યો. બંને ભાઈ એ શ્મશાન—પાલક બનીને નગરીના મૃતકાના અગ્નિસંસ્કાર માટેના કર લે છે અને પ્રસન્નતા પૂર્વક રહે છે.
૧૬૮
इतः सुभानवे कन्या -: - शतमेकोनमग्रहीत् । भामाथाऽत्रैककन्यार्थ प्रेषयामास सेवकं ॥८०॥ प्रज्ञप्तिविद्यया वार्त्ता, तां ज्ञात्वा मन्मथः सुधीः । विकुर्व्य विपुलं सैन्यं, जितशत्रुनृपोऽभवत् ॥ चारुरूपधरां कन्यां, सांबं पुनश्र्चकार सः । सखीभिः कुर्वतीं कोडां, वीक्षिता सा सुभानुना ॥ तेनोक्तं सत्यभामाया - स्तयापि प्रेषितो नरः । गत्वा तेन नृपस्योक्त, कन्या देया सुभानवे ॥ नृपेण कथितं यहि, सत्यभामा कनीं मम । गृहीत्वा पंचशाखेन, प्रविशेद् द्वारिकां पुरीं ॥ कालेऽन्यच्च विवाहस्य. सुभानुककरोपरि । कारयेत्करमेतस्यास्तह्येतां प्रददाम्यहम् ॥ ८५ ॥ जितशत्रुमहोशेन, समाचारो निवेदितः । आगत्य सत्यभामायै, दूतेन तेन भाषितः ॥ ८६ ॥ तदंगीकृत मथिन्या, तयाप्युत्सुकचेतसा । नार्थी हि जनयन् कृत्थं शुभाशुभं विचारयेत् ॥ प्रज्ञप्तिमुक्तवान् सांबो - ऽहं रूपद्वयधारकः । करणीयस्त्वयावश्यं तस्या वाक्यविमित्तये ॥ सत्या तत्परिवार, कुमारों मां प्रपश्यतु । लोकश्च द्वारिकावासी, सांबरुपतयैव च ॥ ८९ ॥ प्रज्ञप्तिविद्यया सांब - वचने विहिते सति । पंचशाखे गृहीत्वा तां भामा पुर्या समाययौ ॥ दक्षिणेन करेणं गृहीत्वा केवलं कनीं । आगच्छंती विजानाति भ्रमाश्रमसमन्विता । ९१ । सांबमेव प्रपश्यंतो, हसंतो नागरा जगुः । अहो सुभानुविवाहे, सांबोधनया हि नीयते । ९२ । सांब वामेन हस्तेन, सुभानोर्दक्षिणं करं । अधः कृत्वा ययौ सत्य - भामाभुवनमंजसा । ९३ । कन्यानां शतमेकोनं शांबोsपसव्यपाणिना । गृहीत्वा युगपद्वैश्वानरस्यादात्प्रदक्षिणां । ९४ । शांबरुपं प्रपश्यत्यः कन्या प्राहुरहो महत् । भाग्यं यद्विधिना भर्त्ता मेलितोऽयं स्वभावतः ॥ एकोनस्य शतस्याssसौ, कन्यानां करपीडनं । विधाय गतवान् वाससद्म ताभिः समं मुदा || सुभानुरपि तत्राथा - गतो यावद्विभूषितः । शांबेन ताडितस्ता -ज्जनीपाश्र्वमायया ॥९७॥ मातर्वासगृहे शांबः समागतोऽस्ति पातकी । स वेगादभ्यधाद्भामां, भीरोहि जननीबलं । ९८ । तदश्रद्दधती सापि, तत्र तं वीक्ष्य दुःखदं । क्रुद्धा जगाद रे केन, समानीतोऽसि दुष्टधीः । ९९| सत्यभामे त्वयैवाह - मानीतोऽस्मीति सोऽवदत् । प्रत्यक्षं सर्वलोकानां पुर्यामत्र निवासिनां । महोत्सवेन विवाह - स्त्वयैव कारितो ममः । मद्वाक्ये प्रत्ययश्वन्न, पृष्टव्या नागरास्तदा ॥१॥ नारायणसमक्षं सा पप्रच्छाकार्य नागरान् । प्रावेशितो मया सांब, उद्वाहितश्च किं ननु ? |२| जगुः पौरास्तदास्मासु, पश्यत्स्वादाय हस्तयोः । समानीतस्त्वयैवाय - मुद्रा हितश्च कन्यका ॥ नाग. कथितं श्रुत्वा, समस्तजनसाक्षिकं । शांबाय प्रददौ विष्णु-रप्येकोनकनीशतं ||४||