________________
૧૫૪
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
सत्यभामा ततोऽमर्षा-त्प्रेषयामास सत्फलं । विजयेद्यः स एतच्च, लाति कोटिचतुष्टयं ।२। पणं कृत्वेति यावत्तौ, क्रीडयामासतुर्मुदा । तावत्तदपि सांबेन, जित्वा कोटीश्च दत्तवान् ।३। ततो वस्त्रयुगं सत्य-भामया प्रेषितं निजं । एतज्जयति यस्तस्य, कोटयष्टकं ददाम्यहं ।।। ऊरीकृत्येति सांबेन, प्रद्युम्नमुखमीक्षितं । तेन तागलं दत्तं, तेनापि तत्पराजितं ॥५॥ पणे वह्निमये कुंडे, प्रक्षाल्य स्वर्णतंतुभाक् । कृत्वा समर्पितं तच्चा-ददे कोटयष्टकं क्षणात् । विलक्षया तयाऽ प्रेषि, हारः षोडशकोटियुक् । मन्मथापितहारेण, सोऽपि वेगाज्जिगाय तं । द्वात्रिंशत्कोटिमूल्याढये, कुडले प्रेषिते तया । जिते प्रद्युम्नसाहाय्या-च्छांबेन ते अपि द्रुतं ।। तया कौस्तुभमाणिवयं, प्रेषितं कृष्णपर्षदि । बिजेतुश्च चतुःषष्टि-कोटीः समर्पयाम्यहं ॥९॥ वरं वरमिति चोक्त्वा, विधिनाक्रीडतां च तौ । जिग्ये तत्रापि सांबेन, प्रद्युम्नस्य प्रभावतः । पणे तद्विगुणं द्रव्यं, विधाय सत्यभामया। उच्चैःश्रवा इव कश्चि-त्संप्रेषितस्तुरंगमः ॥११॥ कामप्रकटिताश्वेन, सांबेन स पराजितः । पणे प्रजल्पितं द्रव्यं, गृहीतं कल्यात्मनः ॥१२॥ तशेषमपि द्रव्यं, दत्वा याचकसंचये। सर्वस्यापि प्रियः सांबो, दाता हि कस्य न प्रियः ॥१३॥ प्रयासा विहिता ये ये, सांबस्य विजिगीषया । सुभानु भानुभामामिः, सर्वेऽपि ते मुधाऽभवन् । श्राद्धीव दिग्पटोयस्य, मोक्षे विफलितक्रिया। विलक्षवदना सत्य-भामा सांबजयेऽभवत्।१५। ततः प्रेष्य चिरं सत्या, प्रद्युम्नं पर्षदि स्थितं । ज्ञात्वा प्रेषीन्महत्सैन्यं, ज्ञातुं मायाविनँभितं ॥ द्यूतकारिषु सांबोऽय-मस्ति जेता महान यदि । तदेतज्जयतात्सोऽथा-न्यथा कामबलाज्जयी। सत्यभामोदितां वाणी, सांबः श्रुत्वेति कर्णयोः । अभूम्लानमुखो हृद्या, विद्या कामस्तदा ददौ। बलं दयितुं सौवं, सांबोऽप्यादाय तां शुभां । निर्गत्य च पुराबाह्ये, बिकुळ कटकं महत् ।१९। व्यानशे कटकेनैव, तदा सर्वमिलातलं । सैन्यं विना किमप्यन्य-न्न दृश्यतेऽध्वगर्जनैः ॥२०॥ स्भानुसांबयोः सैन्ये, मिलिते समजायत । दंडादंडि महायुद्धं, कुंताकुंति गजागजि ॥२१॥ उभयोः संगमे युद्धं, जायमाने परस्परं । जिग्ये भाग्येन सांबेन, सुभानुकटकं समं ॥२२॥ सैन्ये पराजिते तस्य, शांवेन प्रकटीकृतः । यशोवादोऽखिले लोके, लोको ह्य दयिपूजकः ॥ पणे द्विगुणमादत्तं, वित्तं दत्त्वा च याचकान् । बभूव प्रथितः सांबो, महादानीति भूतले ।२४। चित्ते प्रद्युम्नमाहात्म्य, ध्यायन् सांबोऽवदद्वचः । सत्यभामे किमप्यद्या-प्यस्ति ते भवने धनं ॥ सामर्षेण प्रयुक्तापि, श्रितमौनेव नावदत् । पुनः सांबस्तदापृच्छत्, कथं देवि! ब्रवीषि न ।२६। निःश्वस्य सावदद्वत्स, सांप्रतं किं वदाम्यहं । जयाजयो प्रवर्तेते, पुण्यपापप्रभावतः ॥२७॥
દેથી શોભતી સુધર્માસભાના જેવી વિષ્ણુની રાજસભામાં ક્રિીડા કરતા શાંબ અને સુભાનુકુમાર આવી ચઢયા. દેવોથી પરિવરેલા ઈન્દ્રની જેમ બલદેવ, પાંડવો અને યાદવોથી પરિવરેલા કૃષ્ણ તે બંનેને જોયા. “ઉત્તમ પુરૂષે બાલ્યાવસ્થાથી જ વિનીત હોય છે. તે બંને બાલકુમારેએ