________________
૧૩૪
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
इति व्याकुलचित्तोऽसौ, बलिष्टोऽपि वृषाकपिः । सद्यः प्राणापहं शत्रो-रपरं धनुराददे ॥६०।। येनैकशो जयः प्राप्तः, स एवास्तु जयी सदा । इति द्वितीयमप्येत-च्छित्त्वावादीद्वितर्कतः ।६१। ज्ञातं ज्ञातं तव स्थाम, धनुर्विद्यासमुत्थितं । विच्छेदितं मया धन्वन्-मार्गण संधिते सति ।६२॥ समरे वीरमाना-मुपहासकरीदृशी । कुतोऽसो शिक्षिता विद्या, मानभ्रंशविधायिनी ॥६३॥ पांडवा बलभद्राद्या-स्त्वत्तोऽभूवन भटोत्तमाः। यैर्यध्ध्वापि महत्त्वं स्वं, रक्षितं च भुजाजितं । तेषां त्वं नायको लोक-निगद्यसे विशेषः । शुद्धिस्तव न कोदंड-धरणेऽपि प्रवर्तते ॥६५॥ यस्य स्याच्छस्त्रशिक्षायां कौशलं प्रबलं करे। स एव विजयं युद्धे, लभते नापरो नरः ॥६६॥ कलां विना कथं युद्धं, करोषि त्वं मया समं । किं स्त्रियो बंधुवर्गस्य, मोचनेन प्रयोजनं ॥६७॥ युद्धकर्म न या त्वं, शिक्षसे गुरुसन्निधौ । गत्वा मत्पुरतस्तावद्, भुक्ष्व सौख्यानि मंदिरे ॥६८॥ इत्योपहासवाक्येन, हसितः पुरुषोत्तमः । वह्निरिवेंधनैः कोपा-तृतीयमग्रहीद्धनुः ॥६९॥ तेन मुक्त : शरवातै- जितं मान्मथं बलं । नाशितास्तुरगा ध्वस्ताः, स्यदनच्छत्रकेतवः ७०। स्वकीयं नाशितं सैन्यं, समालोक्य मनोभवः । विद्यया स्यंदनं चान्यत्, प्रविधायोद्यतोऽभवत् । कृष्णोऽपि रथमारुह्य, वाह्यवाजिसमन्वितं । विद्यामाहूय युद्धाय, व्यमुंचद्वह्निमार्गणं ॥७२॥ विनिर्मितः क्वचित्तेन, झात्कारो विद्युदाकृतिः । स्फुल्लिगवर्षणं भूयः, क्वचिद्दाहश्च दुस्सहः । आगच्छंतं स्वसैन्यस्यां-तिके वह्निमयं शरं । प्रज्वलंतं समालोक्य, सोऽमुंचन्मेघमार्गणं ॥७४॥ यथा यथा हरेर्बाणः, स्फुलिंगानि ववर्ष च । तथा तथा पयोराशि, मुमोच मान्मथः शरः ।७५। तेन कृष्णस्य बाणस्य, पराकृते पराक्रमे । शस्त्रं मुमोच वायव्यं, रणे विक्षोभकारकं ॥७६॥ उड्डायिताः क्षणात्तेन, मत्तंगजतुरंगमाः । पत्रव्रजा इव च्छत्र-शस्त्रस्यंदनपूरुषाः ॥७७॥ प्रद्युम्नोऽपि ततोऽमुंच-च्छस्त्रं तामससंज्ञक । तस्यांधकारतो जाता, अंधा इव हरेर्भटाः ॥७८॥ एवं विविधजातीय-राधैर्बहुधेरितैः । संग्रामस्तातपुत्राभ्यां, व्यधीयत परस्परं ॥७९॥ प्रद्युम्ने कोपतः कृष्णो-ऽक्षिपन्मार्गणधोरणीः । तथापि तस्य भाग्येन, नासंस्ताः परिभाविकाः। अमोघान्यपि शस्त्राणि, यान्यभूवन् वृषाकपेः । मुक्तानि तानि निःशेषा-ण्यप्यासन् विफलानि च । आयुधानाममोघाना-मपि नैष्फल्यदर्शनात् । ईक्षणाच्च स्वसैन्यस्य, क्षयस्याचितयद्धरिः।८२। पापोऽयं बलसंयुक्तो, मल्लसंग्राममंतरा । मया न शक्ष्यते जेतुं, तस्मात्तं विदधाम्यहं ॥८३॥ विमृश्येति रथाद्विष्णु-रुत्तीर्य वीर्यसंयुतः। चक्रे चरणयोर्घातं, कातरं स्वांतघातकं ॥८४॥ मन्ये कातरमानां, प्रवेशयावनीतले । विवराणि प्रभूतानि, तदा तेनाभवत् भृशं ॥८५॥ रथादुत्तीर्णमालोक्य, जनक कोपभीषणं । प्रद्युम्नोऽपि रथाद्वेगा-दुत्तीर्णो योध्धुमुद्यतः ॥८६॥ मल्लयुद्धविधानाय, यावतौ मिलितावुभौ । बद्धकच्छौ यशोवांछौ, मल्लावभिनवाविव ॥८७॥
ક્રોધથી લાલઘૂમ આંખવાળા કૃષ્ણને રથમાંથી ભયંકર બાણની વર્ષા વરસાવતા જોઈને પ્રદ્યુમ્ન પણ ધીમે ધીમે પોતાને રથ પિતાની સામે લાવ્યો. ત્યારે ઈષ્ટ વસ્તુના અથવા પુત્રમિલનના