________________
सर्ग
कुमारः पुनरप्यूचे, मदर्थं केन हेतुना । स्थितोऽसि सोऽप्यवग् तर्हि, त्वं पृच्छसि तदा शृणु । ६२ । अत्रैव पर्वते लंका - भिधं नगरमद्भुतं । नाम्ना कनककेतुश्च भूपतिस्तत्र संमतः । ६३ । तस्यानिलेति भार्यास्ति वर्यचातुर्यरुपभृत् । सतीगुणसमायुक्ता, वियुक्तौद्धत्यकर्मभिः । ६४ | भुंजानावद्भुतान् भोगान्, वियोगरहितान् पुनः । तावज्ञास्तां न गच्छंतं, कालं कलंकवजितौ ॥ तयोः पुत्रोऽन्यदा च्युत्वा, स्वर्गलोकात्सुरोऽभवत् । हिरण्योऽभिधया ख्यातो, रुपेण निर्जरोपमः ॥ राज्यभारस्य योग्यत्वं, विज्ञाय तनये निजे । तत्समर्प्य भवोद्विग्नः, प्राव्राजीन्मुक्तये नृपः । ६७ । पालयित्वा चिरं दीक्षां द्वादशांगो मधीत्य च । स्फुरत्तरं तपस्तप्त्वा, केवलज्ञानमाप सः । ६८। केवलज्ञानयोगेन भव्यलोकान् प्रबोध्य सः । अष्टकर्मक्षयं कृत्वा, सिद्धिसौधमशिश्रयत् । ६९। हिरण्याख्येन भूपेन, राज्यं प्रपात्यते तथा । कंटकाः काननं भेजुर्यथा बब्बुलपादपान् ।७०। सम्यक्पालयति प्राज्यं, राज्यं कंटकवजितं । तदाप्वधिकलाभाय, हृदयं तस्य वर्तते । ७१ कौतुकेन ततोऽन्येद्युः, प्रासादशिखरस्थितः । पश्यतीतस्ततस्ताव - दैत्यराजं ददर्श सः ॥७२॥ प्रभूतसैन्यसंयुक्तं विभूत्या च विराजितं । तं दृष्ट्वा चिंतयामास, हाहा ममेदृशं न हि । ७३। साधयामि ततो विद्यां तथा सिद्धसमर्पितां । यथा मम प्रसन्ना सा, सर्वां ददाति संपदं ।७४ | विचार्येति स्वकीयाया - नुजाय राज्यमात्मनः । दत्वा सिद्धवनं विद्या - साधनाय स जग्मिवान् ॥ तत्र गत्वा तपः कृत्वा, हृद्यां विद्यामसाधयत् । विधिना साधयित्वा ता - मागान्मंदिरमुत्सवैः ।। न्यासार्पणमिव क्षिप्रं तद्राज्यमनुजापितं । सिद्धविद्यो हिरण्याख्यो, भूपतिर्बुभुजे मुदा । ७७ । महतामतिभोगेन विरक्तिर्वार्धके भवेत् : विरक्तिरिति तस्याभूद्, घोरसंसारवासतः । ७८ भवेयुः सुकृतश्रद्धाधारिणो ये महीभुजः । ते तं यावन्नभुंजंते भोगान् संवेगरंगतः । ७९। इति तेन महीशेन, राज्यं न्यस्य निजांगजे । श्रीनमिनाथसार्वस्य सभायां नंतुमागतः । ८० । आगत्य च जिनं नत्वा, विनयान्नतमस्तकः । प्रजजल्पावनीपालो, ज्ञानवैराग्यपूरितः । ८१ । वर्तते नाथ संसार - स्वरुपं क्षणभंगुरं । ततः शाश्वतसौख्याय, चारित्रं त्वं प्रदेहि मे ॥८२॥ निशम्य वचनं तस्य, बभाण भगवानपि । क्षमाधिनाथ सौख्यं ते, यथा भवेत्तथा कुरु । ८३ । नमिनाथवचः प्राप्य, दीक्षां गृहीतुमुद्यतः । विद्यानां निकरस्ताव-त्प्रोचे हिरण्यपार्थिवं । ८४ | वैराग्यरसपूरेण गृह्णासि संयमं नृप । वद त्वं कोऽस्मदाधार - स्तिष्ठामश्च यमाश्रिताः । ८५ । विद्यागणोदितं श्रुत्वा वचोऽवग्नेमिनं नृपः । स्वामिन्नस्य स्वरुपं यद्भवेत्तत्कथय प्रभो ! | ८६ । प्रोद्यद्विद्यागणस्यास्य, नायकः को भविष्यति । विधाय करुणां नाथ, सांप्रतं तन्निवेदय ।८७ | तदा श्रीनमिसार्वेण, प्रोचे श्रुणु नरेश्वर ! । भविष्यत्यस्य यो नाथो, वदामि तं पुरस्तव । ८८