________________
૧૨૮
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
विपुलां विपुलां प्राप्य, विचक्रे तेन विद्यया । विविधा महती सेना, हस्त्यश्वरथपत्तिभृत् ॥८॥ माधवप्रमुखास्तत्र, यावंत कटके नराः । तावंत एव ते स्वस्यां, सेनायां तेन निर्मिताः ॥९॥ समस्तान्यपि चिह्नानि, तान्येव जनितानि च । त एव तर्यनि?षा, बंदीनां जल्पनं तथा ।१०। हयेभस्यंदनानां चा-कारास्तथैव निर्मिताः । जनितान्यभिधानानि, तथैव सकले बले ॥११॥ सैन्ययुग्मं समालोक्य, तुल्यमेवोत्कटत्वभृत् । जगुः पुरनरनार्यो, मंदिरोपरि संस्थिताः ॥१२॥ काचित्प्रोचे प्रवर्तेत, नारायणः कदाग्रही । एतावत्करणं न्याय्यमस्याऽभवन्न योषिते ॥१३॥ एतेषु विद्यमानेषु, येनेदृशं कृतं बलं । विज्ञायते विपक्षोऽपि, दुर्जयोऽयं यथा तथा ॥१४॥ उभयोमिलने विष्णो-रेतस्य पुरतो जय । दुःसाध्यो ज्ञायते चिन्हैः स चेत् स्याद्भाग्यमद्भुतं । काचिज्जगाद मद्भर्ता, हारितो नास्ति कुत्रचित् । परं युद्धेऽत्र संदेहो, वर्त्तते मम मानसे ॥ जानाम्यहं तदा श्रेष्ठं, यदेतयोरनीकयोः । न जायते मिथो युद्धं, शांतिरेव च सत्वरं ॥१७॥ काचिज्जगौ सखी प्राण-नाथो मे सर्वतो बली । आतपत्रं ततस्तेन, धारितं मस्तकोपरि ॥१८॥ काचिज्जजल्प मे भर्तु-वर्त्तते शौर्यमीदृशं । अहमुद्धरिता दाने, संग्रामे खड्ग एव च ॥१९॥ काचिदूचे सखो सैन्ये, यश्चामरेण वीज्यते । स एव मम विज्ञेयो, भर्ता हर्ताःखिलापदां । इत्यादीनि वशावक्त्र-संभूतानि वचांसि च । शृण्वाना नगरद्वारं, संग्रामायागता भटाः ॥२१॥ केचिद्विचारणां कर्तु, प्रतोल्यामेव संस्थिताः । शत्रुमक्षममाणाश्च, सैन्येऽधावंत केचन ॥२२॥ धावंतः सुभटाःशौर्यात्, केचिद्रणसमुत्सुकाः । अवेष्टयन रिपोः सैन्यं, जयश्रीवांछयाऽभित ।२३। आसाद्य वसुधानाथं, प्रतीहारादयो भटाः। रणान्निवारयामासु-र्भुयो बलयुता अपि ॥२४॥ उभयोः सैन्ययोर्हस्ति-रणघंटा समुत्थिताः । ध्वनयः कोलाहलोत्थाश्च, व्याकुलत्वं प्रचक्रिरे ॥ भेरीभंभादिवादित्र-पवित्रनिनदा भृशं। रोदसीव्यापयंतस्ते बाधिर्यं कर्णयोर्दधुः ॥२६॥ गच्छत्सैन्यपदोद्भूते, रेणौ विस्तरतां गते । चंडांशोरपि चंडानि, तेजांस्यापुर्न दीप्तितं ।।२७॥ मन्येऽहमथवा रेणु-र्वारणायव यात्यसो । वैरी नायं सुतः किंतु, कः कोपोऽयं निरर्थकः ॥ प्रौढोन्मत्तकरेणूनां, मदः कपोलतोगलन् । व्रजंतं वीरयामास, तं रेणुं स्वकवर्षणैः ॥२९॥ अहो रेणो कथं गच्छत्, कटकं त्वं निवारयेः । अत्र प्राणविधो नास्ति, विनोद एव वर्तते ॥३०॥ केशवस्य च कामस्य, स्थिते इति बले उभे । समीपतिभिर्वीरे-रक्षोभ्ये कलयात्मनां ॥३१॥ देवा दैत्याः समायाताः, कौतुकाय नभस्तले । स्वरूपमुभयोश्चम्वो-निरीक्ष्य जगदुर्मिथः ॥३२॥ जयः पराजयः कस्य. न जानीमो भविष्यति । इति कौतुकयोगेन, तस्थुर्गगनमंडले ॥३३॥ दत्वा भूमिबलिष्टवक्षसि पदं, येन स्वमातृद्विष
स्तस्या एव वनादिकं च सकलं शोभाविहीनं कृतं प्रद्युम्नोऽजनयत्स्वकीयजननीकार्य समस्तं क्षणात्, संजातं सुकृतेन पूर्वजनुषा निष्पादिते नैव तत्