________________
૧૧૨
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
આટલા આનંદમાં આવીને કેની પ્રશંસા કરે છે ? ઘરમાં તે આવે.” ત્યારે દાસીઓએ કહ્યું : “સ્વામિની, રુકિમણીદેવી જેવી સૌજન્યવતી અને ગુણવતી આ જગતમાં બીજી કોઈ સ્ત્રી નહી હોય. એક તે વિષ્ણુની પ્રાણપ્રિયા, બીજી સૌજન્યતા, અને ત્રીજી એની વાણીની મીઠાશ, ખરેખર પ્રશંસનિય છે. અમે તમારા કહેવાથી રૂકિમણીના મંદિરે ગયા. ત્યારે તેણે તે પોતાના વચનપાલન માટે રાજીખૂશીથી માથાના વાળ ઉતારી આપ્યા.”
रुक्मिणीस्तुतिमाकर्ण्य, भामाभाणीदमर्षतः । वणिता ये गुणास्तस्या-स्तस्यां संतु नवाऽथ ते ।। विगुप्ताः केन दुष्टेन, केन च्छिन्ना च नासिका। श्रवणाछेदिताः केन, केन मस्तककुंतलाः।९१। तयेत्युक्ते स्वहस्ताभ्यां, तत्र दास्यो व्यलोकयन् । तावत्तदुदितं सर्व, विदांचक्रुः सवेदनं ।९२। तदा तासां समस्तेषु, छिन्नेष्वंगेषु वेदना । बभूव महती चक्रु-विलापांस्ता तया भृशं ।९३। विलपंतीरमूईष्ट्वा, सत्यभानाथ कोपतः । अब्रवीत्केन युष्माकं, वपुःपीडा विनिर्मिता ।९४। ताः प्राहुन विजानीमो, वयं पीडानिबंधनं । त्वत्प्रेषिता गतास्तत्र, साप्यदाद्वेणिकां मुदा ।९५। तां समादाय तुष्यंत्य-स्त्वद्गृहं यावदागताः । त्वया पृष्टाभिरस्माभिः, सा ज्ञाता छेदसंभवा । दासीनामुदितं श्रुत्वा, भामा बभाण चेय॑या । नैतेन केवलं यूयमेवाहमपि पिडिता ।९७। अकृत्यं यदिदं जातं, तद्रुक्मिणीप्रभावतः । अन्यथा दासदासीमें, न हि कोऽपि पराभवेत् ।९८॥ दासीषु परिभूतासु, विडंबिताहमेव हि । पातकिन्यानया लज्जा, रक्षिता सर्वथा न मे ।९९। विवेकः स्नेहतस्तस्यां, न वर्त्तते मनागपि । सगोविंदस्य रामस्य, दृष्टिरागविधायिनो ।९७। किं तद्वशस्य कृष्णस्यो-पालंभं दापयाम्यहं । रुक्मिणीकृतमन्याय, रामस्यैव वदाम्यहं ।९। विमृश्येति निजामात्या-नाकार्य भाभयोदितं । रामस्य पुरतो यूयं, मम वाक्येन गच्छत ।९००। गत्वा विडंबितं सर्वं, लात्वा परिकरं मम । साक्षिणो वलभद्रस्य, प्रदर्शयत सत्वरं ।१। कथनीयं च युष्भाभिः, पुरो रामस्य साक्षिणः । केशदानमभूत्तस्याः, प्रतिपन्नं तया पुरा ।२। पापया तु तदर्थ च, निकेतने गतो मम । विडंबितः परिवारः, कथं नकादिकर्तनात् ।। स्वीकृत्य वचनं तस्या-स्ततस्तेऽपि प्रतस्थिरे । गदितुं बलदेवस्य, स्थितस्य विष्णुसंसदि ।४। सभामध्ये समायातं, सत्यभामापरिच्छदं । कथितं समालोक्य, जहास मधुसूदनः ।५। समीक्षितुं मुकुंदस्य, स्वरूपं सत्यभामया । क्रुधा संस्थितया जालां-तराले प्रविलोकितं ।६। स्वतंत्रदर्शनात्कृष्णं, हसन्तमवलोक्य सा। चित्तेऽज्ञासीदनेनेव, शिक्षिता साऽकरोदिदं ।७। ततोऽस्य पुरतो नैव, कथनेन प्रयोजनं । तथापि सान्वतस्यैवा-वश्यं निवेद्यमेव च ।। ज्ञति इात्वा स्वभृत्यं सा, ज्ञापयित्वा निवेदितं । तेन मंत्रिपुरः प्रोक्तं, मंत्रिणोऽप्यवदन् बलं ।९। हे सान्वत विधाय त्वां, जनार्दनं च साक्षिणं । रुक्मिणीसत्यभामाभ्यां, पणः कृतोऽभवत्पुरा ॥ तदर्थं प्रेषिता दास्यः, सत्यया सत्यभामया। तया तस्या मनुष्याणां, कृतेदृशो विडंबना ॥११॥ नासाकर्णशिरःकेश-हीनं भामापरिच्छदं । अवलोक्य हसन् विष्णुर्जगाद हलिनं प्रति ॥१२॥